पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११२
[ आदितस्तरङ्गः
कथासरित्सागरः ।

ततस्तेन पथाकस्मादेकं वहनमागतम् । तत्रस्थैश्वहक्रन्दन्दंष्ट्रा चात्राधिरोषितः ॥ १२३

आरूढश्चात्र पितरं स्वमपश्यमहं तद। गत्वा द्वीपान्तरं पूर्वं चिरातकालमागतम् ॥ १२४

स मां दृष्ट्वा परिज्ञाय कृतकण्ठग्रहः पिता । रुदन्नपृच्छतृत्तान्तमहं चैवं तमब्रुवम् ॥ १२५

चिरकालप्रयातेऽपि तात त्वय्यनुपागते । स्वर्म इति वाणिज्ये स्वयमस्मि प्रवृत्तान ॥ १२६

ततो द्वीपान्तरं गच्छन्नहं वहनभङ्गतः । अद्यम्बुधौ निमग्नः सन्प्राप्य युष्माभिरुद्धृतः ॥ १२७

मयोक्तस्ततो मां सोपालम्भमभाषत । आरोहसि किमर्थं त्वमीदृशान्प्राणसंशयान् ॥ १२८

धनमस्ति हि मे पुत्र स्थितश्चाहं तदर्जने । पश्यानीतं मयेदं ते वहनं हेमपूरितम् ॥ १२९

इत्युक्रवाश्वास्य तेनैव वहनेन निजं गृहम् । विटङ्कपुरमानीतस्तेनैवेदमहं ततः ॥ १३०

इत्येतद्वणिजस्तस्माच्छक्तिदेवो निशम्य सः । विश्रम्य च त्रियामां तामन्येष्ठस्तमभाषत ॥ १३१

गन्तव्यगुत्स्थलीयं सार्थवाह पुनर्भया । तत्कथं तत्र गच्छामि सांप्रतं कथ्यतामिति ॥ १३२

गन्तुं प्रवृत्तास्तत्राद्य मदीय व्यवहारिणः। तद्यानपात्रमारुह्य प्रयातु सह तैर्भवान् ॥ १३३

इत्युक्तस्तेन बणिज स तैस्तद्वद्दरिभिः । साकं तदुत्स्थलद्वीपं शक्तिदेवो ययौ ततः ॥ १३४

यः स बन्धुर्महात्मा मे विष्णुदत्तेऽत्र तिष्ठति । प्राग्वत्तस्यैव निकटं वस्तुमिच्छामि तन्मठम् ॥ १३५

इति संप्राप्य च द्वीपं तत्कालं च विचिन्त्य सः । विपणीमध्यमार्गेण गन्तुं प्रावर्तत द्विजः ॥ १३६

तावच्च तत्र दैवान्तं दृष्ट्वा दशपतेः सुताः । सत्यव्रतस्य तस्यरात्परिज्ञायेवमब्रुवन् ॥ १३७

तातेन साकं कनकपुरी चिन्वन्नितस्तदा । ब्रह्मन्नगास्त्वमेकश्च कथमद्यागतो भवान् ॥ १३८

शक्तिदेवस्ततोऽवादीदम्बुराशौ स वः पिता । पतितोऽम्बुभिराकृष्टवहनो वडवामुखे ॥ १३९

तच्छुत्वा दाशपुत्रास्ते क्रुद्धा भृत्यान्बभाषिरे । बीतैतं दुरात्मानं हतोऽनेन स नः पिता ॥ १४०

अन्यैश्च कथमेकस्मिन्सति प्रवहणे द्वयोः । वडवाग्नौ पतेदेको द्वितीयश्चोत्तरेत्ततः ॥ १४१

तदेष चण्डिकादेव्याः पुरस्तात्पितृघातकः । अस्माभिरुपहन्तव्यः श्वः प्रभाते पशकृतः ॥ १४२

इत्युक्त्वा दाशपुत्रास्ते भृत्यान्बद्धेव तं तदा । शक्तिदेवं ततो निन्युर्भयकृच्चण्डिकागृहम् ॥ १४३

शश्वकवलितानेकजीवं प्रविततोदम् । खचद्धष्टावलीदन्तमालं मृत्योरिवाननम् ॥ १४४

तत्र बद्धः स्थितो रात्रौ संशयानः स्वजीविते । स शक्तिदेवो देवीं तां चण्डीमेवं व्यजिज्ञपत् ॥ १ १४५

बालार्कबिम्बनिभया भगवति मूर्या त्वया परित्रातम् ।
निर्भरपीतप्रविसृतरुरुदानवकण्ठरुधिरयेव जगत् ॥ १४६

तन्मां सततप्रणतं निष्कारणविधुरवर्गहस्तगतम् ।
रक्षस्व सुदूरागतमिष्टजनप्राप्तितृष्णया वरदे ॥ १४७

इति देवीं स विज्ञष्य प्राप्य निद्रां कथंचन । अपश्यद्योषितं स्वप्ने तद्भर्भगृहनिर्गतम् ॥ १४८

सा दिव्याकृतिरभ्येत्य सदयेव जगाद तम् । भोः शक्तिदेव सा भैषीर्न तेऽनिष्टं भविष्यति ॥ १४९

अस्त्येषां दाशपुत्राणां नाम्ना बिन्दुमती व सा । सा प्रातर्वीक्ष्य कन्या त्वां भर्तुत्वेऽभ्यर्थयिष्यति ॥ १५०

तच त्वं प्रतिपद्येथाः सैव त्वां मोचयिष्यति । न च सा धीवरी सा हि दिव्या स्त्री शापतद्भयुता ॥ १५१

एतच्छुत्वा प्रबुद्धस्य तस्य नेत्रामृतच्छटा । प्रभाते दाशकन्या सा तद्देवीगृहमाययौ ॥ १५२

बभाषे चैनमभ्येत्य निवेद्यात्मानमुत्सुका । इतोऽहं मोचयामि त्वां तत्कुरुष्वेप्सितं मम ॥ १५३

भ्रातृणां संमता होते प्रत्याख्याता वरा मया । त्वयि दृष्टे तु से प्रीतिः संजाता तद्भजस्व माम् ॥ १५४

इत्युक्तः स तय बिन्दुमत्या दशेन्द्रकन्यथा । शक्तिदेवः स्मरन्स्वप्नं दृष्टस्तत्प्रत्यपद्यत ॥ १५५

तथैव मोचितस्तां च सुमुखीं परिणीतवान् । स्वप्नलब्धाम्बिकादेशैर्भातृभिर्विहितेष्सिताम् ॥ १५६

तस्थौ च सुखसिद्धयेव तत्र पुण्यैकलव्धया । रूपान्तरोपागतः स तया सह दिव्यया ॥ १५७

एकदा इऍपृष्ठस्थो धृतगोमांसभारकम् । मार्गागतं स चण्डालं दृष्ट्वा तमब्रवीत्प्रियाम् ॥ १५८

वन्द्यास्त्रिजगतोऽभ्येता याः कृशोदरि धेनवः । तासां पिशितमश्नाति पश्यायं पापकृत्कथम् ॥ १५९