पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३ ।]
१११
चतुर्दारिकालम्बकः ५ ।

रन्नपर्याणं ददशैकं च वाजिनम् । तेनावतीर्येव ततस्तत्पार्श्व कौतुकाद्ययौ ॥ ८५

च तमारोढं शून्यं दृष्टा स तेन च । अश्वेनाहत्य पादेन तस्यां वाप्यां निचिक्षिपे ॥ ८६

भः स च क्षिप्रं वर्धमानपुरान्निजात् । उद्यानदीर्घिकामध्यादुन्ममज्ज ससंभ्रमः ॥ ८७

जन्मभूमौ,च सद्यो वापीजले स्थितम् । अस्मानं कुमुदैस्तुल्यं दीनं चन्द्रप्रभां विना ॥ ८८

नपुरं केवं क सा वैद्याधरी पुरी। अहो किमेतदाश्चर्यमायाडम्बरजूभितम् ॥ ८९

केमपि केनापि मन्दभाग्योऽस्मि वञ्चितः । यदि वा कोऽत्र जानाति कीदृशी भवितव्यता ॥ ९०

चिन्तयन्सोऽथ वापीमध्यात्समुत्थितः। सविस्मयः शक्तिदेवो ययौ पितृगृहं निजम् ॥ ९१

देष्टपटहभ्रमण कृतकैतवः । पित्राभिनन्दितस्तस्थौ सोत्सवैः स्वजनैः सह ॥ ९२

ऽह्नि बहिर्गेहान्निर्गतश्चार्णोपुनः । घोष्यमाणं सपटहं पुरे तस्मिन्निदं वचः ॥ ९३

विप्रक्षत्रियमध्यात्कनकपुरी येन तत्त्वतो दृष्टा ।
वक्तु स तस्मै तनयां सयौवराज्यां ददाति नृपः ॥ ९४

व स गत्वा तान्पटहोद्धोषकान्क्रुती । मया दृष्टा पुरी सेति शक्तिदेवोऽब्रवीत्पुनः ॥ ९५

नृपतेरभं स नीतोऽभूनृपोऽपि तम् । प्राग्वन्मेने परिज्ञाय पुनर्वितथवादिनम् ॥ ९६

चेद्वचिम न मया दृष्टा सा नगरी यदि । तदिदानीं शरीरस्य निग्रहेण पणो मम ॥ ९७

| राजपुत्री मां पृच्छत्वित्युदिते ततः । गत्वा चानुचरै राजा तत्रैवानाययत्सुताम् ॥ ९८

न दृष्टपूर्व तं विप्रं राजानमभ्यधात् । तात मिथ्यैव भूयोऽपि किंचिद्वक्ष्यत्यसाविति ॥ ९९

वस्ततोऽबादीदहं सत्यं मृषेव वा । वचिम राजसुते त्वं तु वदैवं मम कौतुकम्। ॥ १००

नकपुर्यां त्वं पर्यङ्क गतजीविता । दृष्टा चेह च पश्यामि जीवन्तीं भवतीं कथम् ॥ १०१

। शक्तिदेवेन साभिशानं नृपात्मजा । सद्यः कनकरेखा सा जगादैवं पितुः पुरः ॥ १०२

यामुना सत्यं नगरी सा महात्मना । अचिराचैष भर्ता मे तत्रस्थाया भविष्यति ॥ १०३

द्भगिनीश्चान्यास्तिस्रोऽयं परिणेष्यति । विद्याधराधिराज्यं च तस्यां पुरि करिष्यति ॥ १०४

अद्य प्रवेष्टव्या स्वा तनुश्च पुरी च सा । मुनेः शापादहं ह्यत्र जाताभूवं भवद्महे ॥ १०५

नकपुर्या ते देहमालोक्य मानुषः । मर्यभावभृतस्तत्त्वप्रतिभेदं करिष्यति ॥ १०६

शापमुक्तिश्च स च स्यान्मानुषः पतिः । इति मे च स शापान्तं पुनरेवादिशन्मुनिः॥ १०७

परा च मानुष्येऽप्यहं ज्ञानवती तथा । तद्रजाम्यधुना सिद्ध्यै निजं वैद्यधरं पदम् ॥ १०८

वा राजपुत्री सा ततुं त्यक्त्वा तिरोदधे । तुमुछश्नोदभूत्तस्मिन्नाक्रन्दो राजमन्दिरे ॥ १०९

वोऽप्युभयतो भ्रष्टस्तैस्तैर्युरुत्तरैः । क्लेशैः प्राप्यापि न प्राप्ते ध्यायंस्ते द्वे अपि प्रिये ॥ ११०

खन्नोऽपि चात्मानमसंपूर्णमनोरथः । निर्गत्य राजभवनात्क्षणादेवमचिन्तयत् ॥ १११

भावि मे तावदुक्तं कनकरेखया । तत्किमर्थं विषीदामि सत्वाधीना हि सिद्धयः ॥ ११२

नैव कनकपुरीं गच्छामि तां पुनः । भूयोऽप्यवश्यं दैवं मे तत्रोपयं करिष्यति ॥ ११३

च्यैव स प्रायाच्छक्तिदेवः पुरात्ततः। असिद्धार्था निवर्तन्ते नहि धीराः कृतोद्यमाः ॥ ११४

बराच संप्राप जलधेः पुलिनस्थितम् । तद्विटङ्कपुरं नाम नगरं पुनरेव सः ॥ ११५

यच्च-वणिजं तं संमुखमुपागतम् । येन साकं गतस्याठिंध पोतमादावभज्यत ॥ ११६

समुद्रदत्तः स्यात्कथं च पतितोऽम्बुधौ । उत्तीर्योऽयं न वा चित्रमहमेव निदर्शनम् ॥ ११७

च्य स यावत्तमभ्येति वणिजं द्विजः । तावत्स तं परिज्ञाय हृष्टः कण्ठेऽप्रहीद्वणिक् ॥ ११८

। निजं गेहं कृतातिथ्यश्च पृष्टवान् । पोतभङ्गं त्वमम्भोधेः कथमुत्तीर्णवानिति ॥ ११९

बोऽपि वृत्तान्तं तथा तं कृत्नमब्रवीत् । यथा मत्स्यनिगीर्णः प्रागुत्स्थळीपमाप सः ॥ १२०

च तमपि प्रत्यपृच्छद्वणिग्वरम् । कथं तदा त्वमप्यब्धिमुत्तीर्णा वर्यतामिति ॥ १२१

शीत्सोऽपि वणिक्तदाहं पतितोऽम्बुधौ । दिनत्रयं भ्रमन्नासमेकं फलहकं श्रितः ॥ १२२