पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८
[द्वितीय
श्रीरङ्गरामानुजमुनिविरचितभाष्ययुक्ता

भव्यस्ये'ति मन्त्रस्यापि शुद्धात्मस्वरूपे सङ्गतार्थत्वात्, भेदप्रसक्तिमति प्रत्यगात्म स्वरूप एव 'नेहनाने'ति निषेधस्यापि सङ्गतार्थत्वात्, ‘अभेदव्यापिनो वायोस्तथाऽसौ परमात्मनः' इति स्मृतिप्रत्यभिज्ञापकस्य 'वायुर्यथैको भुवनं प्रविष्ट' इति मन्त्रस्यापि शुद्धस्वरूपपरत्वसंभवात् , *सर्वतः पाणिपादमिति गीताभाष्ये ब्रह्मणा परमसाभ्यमा पन्ने शुद्धात्मस्वरूपे सर्वतःपाणिपादादिकार्यकर्तृत्वं संभवतीति उपपादितत्वात्, “एकं बीजं बहुधाय:करतीति मन्त्रस्यापि परिशुद्धपरत्वेऽनुपपत्त्यभावात्, तत्र न तत्र सूर्यो भाती 'ति मन्त्रस्यापि * न तद्भासयते सूय :’ “ ज्योतिषामपि तज्ज्योतितमसः पर मुच्यते' इति गीतावचनेन परिशुद्धात्मस्वरूपपरत्वस्य युक्तत्वात् , 'तं स्वाच्छरी रात्प्रवृहे 'दिति औपसंहारिकमन्त्रस्य शुद्धात्मपरत्व एव स्वारस्यात् कृत्स्राया अयु पनिषदः प्रजापतेिवाक्यवत् प्रत्यगात्मस्वरूपमात्रपरत्वोपपत्तौ प्रत्यगात्मपरमात्मरूप प्राप्यद्वयपरत्वद्देशाश्रयणं वृथा—इति शङ्का प्रत्युक्ता । सर्ववेदप्रतिपाद्यस्यैव ‘तत्ते पदं सङ्ग्रहेण ब्रवीमीति वक्तव्यत्वेन प्रतिज्ञानात् परमात्मस्वरूपप्रतिपादकवेदभागप्रतिपाद्य त्वस्य शुद्धस्वरूपे असंभावात्, शुद्धस्वरूपस्या(य)न्तर्यामिणः परमात्मस्वरूपस्य शुद्ध स्वरूपप्रतिपादकभागेनापि प्रतिपाद्यत्वसंभवादिति द्रष्टव्यम् । तपांसेि सर्वाणि चेति। तपांसि-तपःप्रधाना उपरितनभागा इति व्यासाच्यख्यातम् । यदिच्छन्तो ब्रह्म चर्यं चरन्ति। ब्रह्मचर्य-गुरुकुलवासस्त्रीसङ्गराहित्यादिलक्षणं यदिच्छन्तोऽनुतिष्ठन्ति। तत्ते पदमिति । सङ्गह्यतेऽनेनेतेि सङ्ग्रहः शब्दः । प्राप्यवक्तव्यत्वप्रतिज्ञापरे अस्मिन्भन्ते अर्थात् प्रणवप्रशंसाया लाभात् 'प्रणवं प्रशंस्ये' ति भाप्यस्य च 'सर्वे वेदा ' 'इत्यादिपादत्रयोक्तब्रह्मप्रतिपादकतया प्रशस्येत्यर्थः' इतेि श्रतप्रकाशिका बचनस्य च नानुपपत्तिरिति द्रष्टव्यम् । सङ्केपेण तत्प्रतिपादकं किमित्यत आह ओमित्येतदिति । “ ओं तत्सदिति निर्देशो ब्रह्मणविविधस्मृतः ? इति प्रणवस्य ब्रह्मवाचकत्वात् प्रणवावयवयोरकारमकारयोः परजीक्वाचितया उपायोपेत्रोरप्युपदिष्ट त्वमस्तीतेि द्रष्टव्यम् ।। १५ ।।

एतद्धघेवाक्षरं ब्रह्मा एतद्धयेवाक्षरं परम् ।

एतद्वयेवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ।। १६ ।।

एवं वाचकं प्रणवं द्वाभ्यां मन्त्राभ्यां स्तौति-एतद्धयेवाक्षरं ब्रक्षेति ।'ओमित्य नेनैवाक्षरेण परं (म) पुरुषमभिध्यायीते ' ति ब्रह्ममाप्तिसाधनध्यानालंबनत्वादिदमे