पृष्ठम्:कठोपनिषद्भाष्यम्.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
वल्ली]
२७
कठोपनिषत्

उपायस्याप्यन्तर्भूतत्वात् ' त्रयाणामेव चैवमुपन्यासः प्रक्षश्चे'ति सूत्रनिर्दिष्टोपायोपेतृ प्रश्क्षप्रतिबचनस्य सुघटितयाक्षतेरभावात् ‘तते पदं सङ्गहेण ब्रवीमि इतिं पदशब्दित प्राप्यस्यैव प्रतिवचनप्रतिपाद्यत्वस्य स्पष्ट प्रतीतेरेित्यलं प्रसक्तानुप्रसक्तया । प्रकृत मनुसरामः ॥ १४ ॥

सर्वे वेदा यत्पदमामनन्ति तपासि सर्वाणि च यद्वदन्ति ।

यदिच्छन्तो ब्रह्मचर्ये चरन्ति तत्ते पद सङ्गहेण ब्रवीमि ।

ओमित्येतत् ॥ १५ ॥

एवं पृष्टो मृत्युः *न जाधते म्रियत ? इत्यादिना विस्तरेण प्रतिपिपादयिषुः इदानीं श्रोतुरादरातिशयसिद्धयर्थ प्राप्यवैभवं प्रकाशयन् सङ्ग्रहोतिं प्रतिजानीते-सवै वेदा इति। पद्यते गम्यत इति व्युत्पत्त्या पदशब्दः प्राप्यस्वरूपवाची । यत्स्वरूपं सर्वे वेदा साक्षात्परम्परया वा प्रतिपादयन्तीत्यर्थः । अनेन-अस्या उपनिषदः प्रजापतिविद्यावत् परि शुद्धात्मस्वरूपिवषयतैवास्तु-' न जायते िम्रयते वा िवपिश्चत, “हन्ता चेन्मन्यते हन्तु मिनि मन्त्रद्वयस्य परिशुद्धात्मस्वरूपपरत्वस्य सम्प्रतिपन्नत्वात् । ' अणोरणीयानि ति मन्त्रद्वय()स्यापि ‘अविनाशि तु तद्विद्धि येन सर्वमिदं ततम्’ । ‘नेिव्यपारमनाख्येयं व्याप्तिमात्रमनृपभम्' इति स्मृतिवचनाभ्यां सर्वान्तःप्रवेशयेोग्यातिसूक्ष्मतथा व्यापक तया च प्रतिपादिते प्रत्यगात्मनि उपपन्नत्वात् , 'सूक्ष्मत्वात्तदविज्ञेयं दृरस्थं चान्तिके च तदि 'ति गीतानुसारेण * आसीनो दूरं व्रजति शयानो याति सर्वतः' इति वचन स्यापि तत्रैव युक्तत्वात्, 'ग्रसिष्णु प्रभविष्णु चेत्युपवृंहणानुसारात् 'यस्य ब्रह्म च क्षत्रं चे'तेि मन्त्रस्यापि तत्र सङ्गतार्थत्वात्, 'द्वितीयं विष्णुसंज्ञस्य योगिध्येयं परं पदं प्रसूतिनाशस्थितिहेतुरीश्वरस्त्वमेव नान्यत् परमं च यत्पद मिति स्मृत्यनुसारेण ‘सोऽध्वनः पारमामोति तद्विष्णोः परमं पदमिति मन्त्रस्यापि शुद्धात्मस्वरुपे सङ्गतार्थ त्वात्, “अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गति मिति स्मृत्यनुसारेण 'सा काष्ठा सा परा गति' रिति मन्त्रस्यापि परिशुद्धात्मविषयत्वसंभावात् , ' समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरं 'इति स्मृत्यनुसारेण ‘एष सर्वेषु भूतेष्विति मन्त्रस्यापि शुद्धस्वरूप परत्वोपपत्ते , 'पराञ्चि खानी ति मन्त्रे परागर्थनिन्दाद्वारेण प्रत्यगर्थस्यैव प्रकरण प्रतिपाद्यत्वाविष्करणात्, “तिष्ठन्तं परमेश्वर' मिति गीतानुसारेण 'ईशानो भूत