पृष्ठम्:ऋतुसंहारम् (चन्द्रिकाव्याख्यासमेतम्).djvu/८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८०
ऋतुसंहारे

 समदेति ॥ रम्यः सुन्दरः कुसुममासो वसन्तसमयः समदा मदसहिता ये मधुकरा भ्रमरास्तेषां कोकिलानां च नादैः। कुसुमिताः संजातकुसुमाः सहकारा आम्रवृक्षास्तैः कर्णिकारैर्द्रुमोत्पलैः । सुतीक्ष्णैरतिनिशितैरिषुभिर्बाणैरिव । मन्मथोद्वे- जनायोद्वेजयन्मानिनीनां मानवतीनां मानसं तुदति व्यथयतीत्यर्थः । मालिनीवृत्तमेतत् । लक्षणं तूक्तम् ॥

आम्रीमञ्जुलमञ्जरीवरशरः सत्किंशुकं यद्धनु-
र्ज्या॑यस्यालिकुलं कलङ्करहितं छत्रं सितांशुः सितम्।
मत्तेभो मलयानिलः परभृतौ यद्वन्दिनो लोकजि-
त्सोऽयं वो वितरीतरीतु वितनुर्भद्रं वसन्तान्वितः२८


 आकम्पितानि हृदयानि मनस्विनीनां
  वातैः प्रफुल्लसहकारकृताधिवासैः ।
 संबाधितं परभृतस्य मदाकुलस्य
  श्रोत्रप्रियैर्मधुकरस्य च गीतनादैः ॥
 रम्यः प्रदोषसमयः स्फुटचन्द्रभासः
  पुंस्कोकिलस्य विरुतं पवनः सुगन्धिः ।
 मत्तालियूथविरुतं निशि शीधुपानं
  सर्व रसायनमिदं कुसुमायुधस्य ॥
 छायां जनः समभिवाञ्छति पादपानां
  नक्तं तथेच्छति पुनः किरणं सुधांशोः ।
 हये प्रयाति शयितुं सुखशीतलं च
  कान्तां च गाढमुपगूहति शीतलत्वात् ।।
 मलयपवनविद्धः कोकिलेनाभिरम्यः
  सुरभिमधुनिषेकालब्धगन्धप्रबन्धः ।
 विविधमधुपयूथैर्वेष्टयमानः समन्ता-
  द्भवतु तव वसन्तः श्रेष्ठकालः सुखाय ॥