रोदिति क्रन्दति शोकं याति । तत्समये प्रेयसीप्राप्त्यभावात्। घ्राणं करेण हस्तेन विरुणद्धि । तदीयसौगन्ध्यस्यापि संतापाधिक्यजनकत्वात् । उच्चैरुच्चस्वरेण विरौति । हा कान्ते इति शब्दं करोतीत्यर्थः ॥
समदमधुभराणां कोकिलानां च नादैः
कुसुमितसहकारैः कर्णिकारैश्च 1रम्यः।
इषुभिरिव सुतीक्ष्णैर्मानसं मानिनीनां
तुदति 2कुसुममासो मन्मथोद्वेजनाय ॥२७॥
१. 'रम्यैः'. २. 'कुसुमवाणो मन्मथोद्दीपनाय.'
२७ श्लोकस्यान्ते इमे श्लोका दृश्यन्ते-
रुचिरकनककान्तीन्मुञ्चतः पुष्पराशी-
न्मृदुपवनविधूतान्पुष्पितांश्चूतवृक्षान् ।
अभिमुखमभिवीक्ष्य क्षामदेहोऽपि मार्गे
मदनशरनिघातैर्मोहमति प्रवासी ॥
परभृतकलगीतैर्ह्लादिभिः सद्वचांसि
स्मितदशनमयूखान्कुन्दपुष्पप्रभाभिः ।
करकिसलयकान्तिं पालवैर्विद्रुमाभै-
रुपहसति वसन्तः कामिनीनामिदानीम् ॥
कनककमलकान्तैराननैः पाण्डुगण्डै-
रुपरिनिहितहारैश्चन्दनार्द्रैः स्तनान्तैः।
मदजनितविलासैदृष्टिपातैर्मुनीन्द्रा-
न्स्तनभरनतनार्यः कामयन्ति प्रशान्तान् ॥
मधुसुरभिमुखाब्जं लोचने लोध्रताम्रे
नवकुरुबकपूर्णः केशपाशो मनोज्ञः ।
गुरुतरकुचयुग्मं श्रोणिबिम्बं तथैव
न भवति किमिदानीं योषितां मन्मथाय ॥