पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८४
उत्तररामचरिते

सौमित्रिमात्रके बाष्पस्खलिताक्षरः कुशलप्रश्नः । तथा मन्ये विदितसीतावृत्तान्तेयमिति । (प्रकाशम् ।) आः, कुशलं कुमारलक्ष्मणस्य ।

 वासन्ती-(रुदती 1) अयि देव, कि परं दारुणः खल्वसि।

 सीता-सहि वासन्दि, किं तुभं एव्वंचादिणी होसि । पूआरुहो सव्वस्स अजउत्तो विसेसदो मह पिअसहीए।

 वासन्ती -

  त्वं जीवितं त्वमसि मे हृदयं द्वितीय
   त्वं कौमुदी नयनयोरमृतं त्वमङ्गे ।
  इत्यादिभिः प्रियशतैरनुरुध्य मुग्धां
   तामेव शान्तमथवा किमतःपरेण ॥२६॥

(इति मुह्यति ।)

 तमसा-स्थाने वाक्यनिवृत्तिर्मोहश्च ।

 राम:--सखि, समाश्वसिहि समाश्वसिहि ।

 वासन्ती—(समाश्वस्य ।) तत्किमिदमकार्यमनुष्ठितं देवेन ।

 सीता-सैहि वासन्दि विरम विरम ।

 राम:--लोको न मृष्यतीति ।

 वासन्ती- कस्य हेतोः ।

 १. सखि वासन्ति, किं त्वमेवादिनी भवति । पूजाहः सर्वस्यार्यपुत्रो विशेषतो मम प्रियसख्याः ।

 २. सखि वासन्ति, विरम विरम ।

आः इति सोपालम्भाशीकारे ॥ त्वमिति । त्वं जीवितं प्राणाः। त्व मे द्वितीय हृदयमसि । त्वं नयनयोः कौमुदी तद्वदानन्दिनी । को मोदन्तेजना चल्मात्तेनेयं कौमुदी मता' इति कौमुदीपदनिरुक्तेः । त्वमझे विषये अगृत पीयूषम् । तद्वजराप्रतिरन्धेन निल्लयौवनाबहेयर्थ । अल प्राणाः प्राणा एव, हृदय हृदयमेव, कौमुदी कौमुद्येव, अभृत अमृतमेव । त्व तु प्रागा हृदय कौमुद्यम्तमेतत् सर्वमिति प्राणावपेक्षया बैलक्षण्यमपि सूच्यते । देवतायाः खस्था अपि ज्ञातुं वत्सु चाशक्यत्वादाह--इत्यादिभिरिति । नियागां प्रियवचनानां शतैः । अनन्तवाची शतशब्दः । शत सहस्रमयुत सर्वमानन्यवाचकम् इम्युक्तेः । मुग्धां अनुरु य । 'उदयद्यौवना मुग्धा' इति लक्षणलक्षितां सुन्दरीम् । यत्कौर्यम जानन्दीमिति वार्थः । अनुरुध्य अनुनीय तामेव पूर्वोक्तानुनयविषयभूतामेवान कय त्यक्तवानसि । नाशितबानसीतिया। वाक्यशेषस्य हुःखातिबाचेन वक्तुमशक्यतया प्रकरणायनुग्रहेणा-