वासन्ती-
ददतु तरवः पुष्पैरध्यै फलैश्च मधुश्च्युतः
स्फुटितकमलामोदप्रायाः प्रवान्तु वनानिलाः ।
कलमविरलं रज्यत्कण्ठाः कणन्तु शकुन्तयः
पुनरिदमयं देवो रामः स्वयं बनमागतः ॥ २४ ॥
राम:-एहि सखि वासन्ति, नन्वितः स्थीयताम् ।
बासन्ती--(उपविश्य सासम् । महाराज, अपि कुशलं कुमारलक्ष्मणस्य।
रामः-(अनाकर्णनमभिनीच ।)
करकमलवितीर्णैरम्बुनीवारशप्पै-
स्तरुशकुनिकुरङ्गान्मैथिलीयानपुप्यत् ।
भवति मम विकारस्तेषु दृष्टेषु कोऽपि
द्रव इव हृदयस्य प्रस्रवोद्भेदयोग्यः ॥ २५ ॥
वासन्ती-महाराज, ननु कुशलं पृच्छामि कुमारलक्ष्मणस्येति ।
रामः--(आत्मगतम् ।) अये, महाराजेति निष्प्रणयमामन्त्रणपदम् ।
सा उत्ताना च सा दीर्घा च इति विग्रहे विशेषणसमासः। उत्तागविपुला । स्नेहस्व अनुरागहा निष्यन्दः यस्यारस्तीति विग्रहः । दुग्धकुल्येव सुधामयकलिमाल्पसारदिव स्नपयति स्नान करोति । आदन्तत्वात् पुगागमे 'ग्लानावनुवमा च' इति वैकल्पिको हसः॥२३॥ दत्विति । मधूनि मकरन्दानि श्चोतयन्ति क्षरन्तीति विग्रहः । 'श्रुतिर क्षरणे' इत्यस्मादन्त वित्तण्वर्थात् कर्तरि विष्प्रत्ययः । यद्वा मधुभिः मकरन्दैः ब्योतन्लि आदीकुर्वन्तीति विग्रहः । 'श्युतिर आसेचने' इत्यस्मात् किम् । इदं च वनानिलानां विशेषणम् । तृतीयान्तपाठे फलविशेषण पुष्पविशेषण वा । 'च्यु च्यवने इत्यस्मात् भावे क्तप्रत्यये मशूनां च्युतं च्यवन येभ्य इति पुष्पपक्षे । फलरक्षे तु कर्मणि क्तप्रत्ययेन मधुभ्यः च्युतैरेिति पञ्चमीतत्पुरुषः । पुष्परससमृद्रो तात्पर्यम् । तदेव पक्षनये-आद्यः शकारचकाराभ्यां युक्तः पाठः। द्वितीयः शकारचकारयकारैर्वृतः। तृतीयस्तु चकारचकाराभ्यामिति विवेकः । रज्यत्कण्ठाः रागयुक्तकण्ठाः कणन्तु गीतवाद्यभेदेन शब्द कुर्वन्तु । अत एव कुजन्विति लोकम् ॥ २४ ॥ अनाकर्णन आकर्णनाभावम् । करकमलेति । करकमलयितीजः करकमलदत्तैः अम्बुनीवारशष्पैः नीवारो धान्यविशेषः, शष्प बालतृण तै' अपुष्यत् अथर्धयत् । अनाम्बुना तरून् , अम्बुनीबाराभ्यां शकुनीन्, अन्धुनीवार शौ. कुरहानिति विवेकः । तेथु टेषु सत्सु प्रयोद्भेदयोग्यः प्रकरणोत्पत्तियोग्यः द्रव इव कोऽपि विकारः मम हृदयस्य भवति उत्पद्यते ॥ २५ ॥ महाराजेत्यामन्त्रणपदं संबोधगशब्दः॥