पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५४
उत्तररामचरिते

  वितरति गुरुः प्राज्ञे विद्यां यथैव तथा जड़े
   न तु खल्ल तयोर्ज्ञाने शक्ति करोत्यपहन्ति वा ।
  भवति हि पुनर्भूयान्भेदः फलं प्रति तद्यथा
   प्रभवति शुचिर्बिम्बग्राहे मणिर्न मृदादयः ॥ ४ ॥

 वनंदेवता-अयमध्ययनप्रत्यूहः ।

 आत्रेयी--अन्यश्च ।

 वनदेवता-अथापरः कः।

 आत्रेयी-अथ स ब्रह्मर्षिरेकदा माध्यंदिनसवनाय नदीं तमसामनुप्रपन्नः । तत्र युग्मचारिणोः क्रौञ्चयोरेक व्याधेन वध्यमानं ददर्श । आकस्मिकप्रत्यवभासां देवीं वाचमानुष्टुभेन छन्दसा परिणतामभ्युदैरयत् ।

  मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः।
  यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ॥ ५ ॥

 वनदेवता--आनायादन्यत्र नतनाच्छन्दसामवतारः ।

 आत्रेयी-तेन हि पुनः समयेन तं भगवन्तमाविर्भूतशब्दप्रकाशमपिमुपसंगम्य भगवान्भूतभावनः पद्मयोनिरवोचत्.---'ऋषे, प्रबुद्धोऽसि


प्रतिभा । प्रज्ञा शानं उक्कार्यग्रहणम् । वितरतीति । तयोः प्राज्ञजडयोः हाने शकि न करोति, प्राज्ञस्य ज्ञाने अपूर्वा शक्ति न जनयति । जडस्य ज्ञाने शक्ति नापहन्ति जडस्य ज्ञाननिष्ट शक्ति न नाशयति । निम्वग्राहे प्रतिबिम्बज्ञानोत्पादने मणिः वर्ण रत्नसामान्यं वा । मृदादयः । आदिपदात् वृक्षपाषाणलोष्टग्रहणम् ॥ ४ ॥ अथेति प्रश्ने। अथेति । माध्यंदिनसवनाय मध्यंदिनसंबन्धिकर्मणे । अनुप्रपन्नः प्राप्तः । तनेति। युग्ने द्वन्द्वं यथा तथा चरत इति युग्मचारिणौ तयोः क्रौञ्चयोः पक्षिविशेषयोः । ध्याधेन पुलिन्देन । ददर्श अपश्यत् । आकस्मिकप्रत्यवभासां नि:तुकाविर्भावाम् आनुहुभेन छन्दसा । खाथिकोऽप्रत्ययः । मा निषादेति । प्रतिष्ठां तु अभ गमः इति पदचतुष्टयं निषादपक्षे बोध्यम् । एवं च माङ्योगेऽडागमनिषेध उपपद्यते । अमेलस्य न विद्यते मा लक्ष्मीः यत्त्येति विग्रहः । एवं च अलक्ष्मीकेति निषादं प्रति मन्युर्गम्यते । अत एव भगवन्तं प्रति रावणवधजनितप्रीत्यतिशयेन मानिषादेति सलक्ष्मीकलप्रतिपादनम् । भगवत्परत्वे मा लक्ष्मीः निषीदयस्मिन्निति मानिषादः । बाहुलकादधिकरणे घन् । तस्य संबुद्धिः निषेधार्थमाशब्देन अडागमसमर्थन तु लिष्टम् । प्रतिष्टां आस्पदम् । व्याधपक्षेमा गमः न गच्छेः। भगवत्पक्षे अगमः प्राप्तवानिति । समाः संवत्सरान् । अत्यन्तसंयोगे द्वितीया ॥५॥ आम्नायात् वेदात् ॥तेनेति । तेग समयेन कालेन । भूतेन प्रजाः भावयति उत्पादयतीति विग्रहायाभूतं सत्यम् , निर्निरोधमिति वा भावना अध्यवसायः चस्येति वा । पयोनिःभगवन्नामिकमलजातः । अनेन पूर्वोक्तभूतभावनत्वप्रयुक्तपरलश-