पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५५
द्वितीयोऽङ्कः ।

वागात्मनि ब्रह्मणि । तहि रामचरितम् । अव्याहतज्योतिराचे ते चक्षुः प्रतिभातु । आधः कविरसि' इत्युक्त्वान्तर्हितः । अथ स भगवान्पाचेतसः प्रथमं मनुप्येषु शब्दब्रह्मणस्तादृशं विवर्तमितिहास रामायणं प्रणिनाय ।

 वनदेवता हन्त पण्डितः संसारः।

 आत्रेयी-तस्मादेव हि ब्रवीमि तत्र महानध्ययनपत्यूह इति ।

 वनदेवता-युज्यते ।

 आत्रेयी-विश्रान्तास्मि भद्रे । संप्रत्यगस्त्याश्रमस्य पन्थानं ब्रूहि ।

 वनदेवता इतः पञ्चवटीमनुपविश्य गम्यतामनेन गोदावरीतीरेण ।

 आत्रेयी--(सास्रम् ।) अप्येतत्तपोवनम् । अप्येषा पञ्चवटी । अपि सरिदियं गोदावरी । अप्ययं गिरिः प्रस्रवणः । अपि जनस्थानवनदेवता त्वं वासन्ती।

 वनदेवता - तथैव तत्सर्वम् ।

 आत्रेयी हा वत्से जानकि।

  स एष ते वल्लभशाखिवर्गः
   प्रासनिकीनां विषयः कथानाम् ।
  त्वां नामशेषामपि दृश्यमानः
   प्रत्यक्षदृष्टामिव. नः करोति ॥ ६॥

 वासन्ती- (सभवम् । स्वगतम् ।) कथं नामशेषत्याह । (प्रकाशम् ।) किमत्याहितं सीतादेव्याः ।

 आत्रेयी-न केवलमत्याहितम्, सापवादमपि । (कर्णे।) एवमिति ।

 वासन्ती - हा दारुणो दैवनिर्धातः । (इति मूच्छति ।)

 आत्रेयी-भद्रे, समाश्वसिहि समाश्वसिहि ।


ङ्का निराकृता । प्रबुद्धोऽसि प्रकृष्टज्ञानवानसि । वागेव आत्मा यस्य तस्मिन् ब्रह्मणि शब्दब्रह्मणि । वाचो वैपुल्याभिप्रायकं ब्रह्मवरूपणं ब्रह्मतत्त्वमेव शब्दरूपेण भातीत्यर्थ इति कैवटमतानुसारेण वा । अव्याहतज्योतिः अप्रतिहतप्रकाशं आर्षे ऋषिसंबन्वि योगजन्यज्ञानं चक्षुः नेत्र ज्ञानमिति फलितोऽर्थः । 'तत्सर्व मत्प्रसादेन विदितं ते भविष्यति' इत्यादि रामावणे द्रष्टव्यम् । आद्यः कविरसीत्युक्त्वा अनुगृह्म । अन्तर्हितः परोक्षतां गतः ॥ स इति । दृश्यमानः दृष्टिविषयीभूतः । प्रासद्दिकीनां प्रसक्स्यनुप्रसक्त्या जातानां कथानां प्रश्नप्रतिवचनरूपाणां वाक्यसंदीणां विषयः प्रतिपाद्यः वालभशाखिना स्वयं चर्षितत्वात अत्यर्थनीतिविषयाणां वृक्षाणां शाखिनामिति वचन सीताकरस्पर्शप्रयुक्तस्फीतत्वाभिप्रायकम् ॥६॥ दैवनिर्धातः दैवप्रहारः । दारुणः तीव्रः॥