पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३
प्रथमोऽङ्कः।

 सीता—(सास्त्रमात्मगतम् । अझो, दिणअरकुलाणन्दगो एव्वंबि मह कालणादो किलन्तो आसि ।

 लक्ष्मणः—(राम निर्वर्ण्य साकूतम् ।) आर्य, किमेतत् ।

  अयं ताबद्धाप्पस्युटित इव मुक्तामणिसरो
    विसर्पन्धाराभिलुंठति धरणी जीरकणः ।
  निरुद्धोऽप्यावेगः स्फुरदधरनासापुटतया
   परेषामुन्नेयो भवति चिरमाध्मातहृदयः ॥ २९ ॥

 रामः-वत्स,

  तत्कालप्रियजनविप्रयोगजन्मा
   तीनोऽपि प्रतिकृतिवाग्छया विसोढः ।
  दुःखामिर्मनसि पुनर्विपच्यमानो
   हृन्मर्मत्रण इव वेदनां तनोति ॥ ३० ॥

 सीता--हंदी हद्धी । अहंवि अदिभूमि गदेण रणरणएण अन्जउत्तसुण्णं विअ अत्ताणं पेक्खामि ।


 १. अहो, दिनकरकुलानन्दन एवमपि मम कारणाक्लान्त आसीत् ।

 २. हा धिक् हा धिक् । अहमप्यतिभूमि गतेन रणरणकेनार्यपुत्रशून्यमिवास्मानं पश्यामि।


करणेन वृत्तं निष्पन्नमिदमिति सीताहरणादेश्चित्रस्वाकुल्या निर्देशः । क्षालितमपि प्रतिकृतमपि व्यथयति दु.खं जनयत्ति । शूर्पणखानन्तरं सीताहरण लिखितमिति भावः । अत्र ग्रावापि रोदितीत्यादिक नायोगे योगकल्पनम् । किंतु वास्तवमेव । 'अपि वृक्षाः परिम्लामाः' इतिवदुपपत्तेः । एवं स्मृत्वाद्यापि रोदितीत्यवगम्यते ॥२८॥ आर्येति । एतद्रक्ष्यमाणम् ॥ अयं तावदिति । त्रुटितरिछन्न आवेगो दुःखातिशयः । अधरश्च नासापुटश्चेति विग्रहः । तयोईन्दूश्च । अतो न नासाशब्देहखः । उन्नयोऽनुमेय आध्मातहृदयो गद्गदशब्दयुक्तकण्ठः। 'ध्मा शब्दे' इति धातोः कर्मणि क्तः। नेद चित्रकथनं किंतु तादात्विकवास्तवावस्थाकथनमेव । तत्कयचेखादि प्रतिवचनानुरूयात् ॥ २९॥ तत्कालेति । प्रतिकृतित्रु प्रतिक्रियासु वाञ्छयादरेण विपच्यमानः । स्वयमेव परिपाकमाधित्येलर्थः कर्मणः कर्तृत्वविवक्षया 'कर्मवत्कर्मणा' इत्यातिदेशिकयगात्मनेपदम् । इद च मध्यमणिन्यायेन पूर्वोत्तराभ्यामन्वेति। तनोति । विस्तारयतीत्यर्थः ॥ ३०॥ भूमिमतिकान्तोऽतिभूमिः । 'अत्यादयः' इति समासः । भावप्रधानो निर्देशः । अतिभूमित्वं गतेनेत्यर्थः । बैपुल्यं प्राप्लेनेति यावत् । रणरणकेन भयसंभ्रमेण ॥ आक्षिपाम्यन्यतो मनः प्र-