पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३१
प्रथमोऽङ्कः।

  स्मरसि सरसनीरां तत्र गोदावरी वा
   स्मरसि च तदुपान्तेप्वावयोर्तनानि ॥२६॥

किं च ।

  किमपि किमपि मन्दं मन्दमासक्तियोगा-
   दविरलितकपोलं जल्पतोरक्रमेण ।
  अशिथिलपरिरम्भव्याप्तैकैकदोष्णो-
   रविदितगतयामा रात्रिरेव व्यरंसीत् ॥ २७ ॥


तस्मिन्पर्वते । प्रस्रवण इत्यर्थः । विहिताश्च ताः सपर्याश्च विहितसपर्याः । विहितसपासु विहितसपर्यासु प्रतिदिहितसपर्चम् । वीप्सायामव्ययीभावः । तत्र आसमन्तात्सुखेन स्थितयोरित्यर्थः । 'सुः पूजायाम्' इति कर्मप्रवचनीयत्वात् पवाभावः । बा प्रतिविहिताभिः । प्रत्युपकारीकृताभिरित्यर्थः । अस्मत्कृतवनानुगमनानुशामहोपकारस्येति शेषः । आवयोरित्याध्यते । सरसनीरां स्वाभाविकमधुररसयुकजलवतीम् । अनेन समुद्रसंगमसमीपस्थजलं व्यावयते । तत्रास्थाः क्षारप्रसिद्धर्वा किमित्यर्थः । अत एव पूर्वोत्तरयोः किमिति लभ्यते । अत्र प्राथमिकन्वाद्वाह्यत्वाच प्रथम तान्यहानीति दिनस्योक्तिः । आनन्तर्यादहस्यत्वाच्च आबचोर्वर्तनानीत्यस्यानन्तरोक्तिः तदुभयोपकारित्वाद्गोदावर्थी मध्वोक्तिरिति ध्येयम् ॥ २६ ॥ किमपीति । आसक्तिः रत्यभिनिवेशो विषयानुभूत्यानवस्थानलक्षणन्तस्याः योगात् संवन्धाद्धेतोः अविरलिती निरन्तरीकृतौ कपोलौ यस्मिन्कर्मणि तथोक्तम् । मन्द मन्दमतिसूक्ष्माक्षर चथा तथा अक्रमेणान्योन्यस्वभावविरुद्ध प्रक्रियया किमपि किमपि । इदं च गुप्तकथनम् । जल्पतोरशिथिळे गाढे परिरम्भे व्यापृतमेकैके दोः ययोरिति पूर्वस्मादनुषङ्गः । शेषे षष्ठीयम् । अविदितं यथा तथा गता यामा अस्यास्तथाविधा रात्रिरेब व्यरंसीतू विरमति स्म । नेवासक्तियोगविसम्भसंलापक्रीडाद्य इत्यर्थः । 'धाइपरिभ्यो रमः' इति परस्मैपदम्' । 'यम रम- इति सगिदौ । अत्र अविदितगतेति वाविदितगतनाडीति वा अकृत्वा यामपदोपादानादयमाशयोऽवगम्यते । 'व्रजति रतिसुखाथै चित्रिणीमग्रयाने ब्रजति दिनरजन्या हस्तिनों च द्वितीये । गमयति च तृतीये शशिनीमाईभाव रमयति रमणीयो पद्मिनी तुल्ययामे ॥' इत्युक्तप्रकारेण पभिन्यादीनां सुरवसौख्यातिशबाय यामविशेषा विधीयन्ते । तथा च पधिनीपाचालादीमां खखविहितयामप्रतीक्षणं विहितेतरयासानां कथंचिदतिवाहनं च सिद्धम् । एव च सीतारामयोः पधिनीपाञ्चालयोस्तुर्ययामस्वैव सुरतयोग्यत्नेन निरतिशयमुखावच्छेदककालत्वात्तस्याविदितगतत्वं किंतु तदुच्यमान तदितरयामेषु पर्यवस्यतीति । तद्वतेषामतिशयितसुखकालत्वं सिद्ध्यति । तेषामतिशयितकालत्वमान्तरसंभोगेनैवेति किमपि किमपीत्यादिभिरवगम्यते । तथाहि किमपि क्रिमपीत्यस्य सुरतकालीमवरुव्यजातमेवार्थः । गुप्तकथनादेवं च किमपि किमपि जल्पतौरित्यन मन्दमन्दमविरलितकपोलमित्युभयत्र जल्पनेऽन्वेति । अक्रमणेत्यपि तथा । एवं च सुरतकालीनजल्पनस्य