पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०
उत्तररामचरिते

 लक्ष्मण:--एष बिन्ध्याटवीमुखे विराधसंवादः ।

 सीता--अलं दाब एदिणा । पेक्खम्मि दाब अज्जउत्तसहत्तधरिदतालवुन्तादवत्तं अत्तणो अच्चाहिदं दक्खिणारण्णपहिअत्तणम् ।

 रामः

  एतानि तानि गिरिनिर्झरिणीतटेषु
   वैखानसाश्रिततरूणि तपोवनानि ।
  येप्वातिथेयपरमा यमिनो भजन्ते
   नीवारमुष्टिपचना गृहिणो गृहाणि ॥ २५॥

 लक्ष्मण:--अयमविरलानोकहानियहनिरन्तरसिग्धनीलपरिसरारण्यपरिणद्धगोदावरीमुखकन्दरः संततमभिष्यन्दमानमेषमेदुरितनीलिमा जनस्थानमध्यगो गिरिः प्रस्रवणो नाम ।

 रामः -

  स्मरसि सुतनु तस्मिन्पर्वते लक्ष्मणेन
   प्रतिविहितसपर्यासुस्थयोस्तान्यहानि ।


१. अलं ताबदेतेन । पश्यामि ताबदार्यपुत्रस्वहस्तधृततालवृन्तातपत्रमात्मनोऽत्याहितं दक्षिणारण्यपथिकत्वम् ।


न्यङ्गकानि । 'अनुकम्पाचाम्' इति कन्प्रत्ययः । त्वं ममोरसि कृत्वा यत्र अस्मिन्प्रदेशे निद्रामवाप्ता स कथं विस्मयंत इति योजना । अयं भावः- पूर्वमभ्वसंपातखेदः, ततो ललितत्वसौकमार्चद्विगुणीभावः, ततस्तद्दर्शनवशादशिथिल्धलिङ्गनबाहुल्यम् , ततश्च तत्संवाहनता, ततः स्वभारणसामर्शविरहदौर्बल्यम् , ततो रामवक्षःस्थल एव लमता, ततस्तदीयसौकुमार्यपारवश्यात्तत्रैव निद्रावाप्तिरिति ॥२४ ॥ वहस्त वृततालपत्र- मेव तालवृन्तं तदेवातपत्र यस्मिनिति विग्रहः । आत्मनोऽत्याहितं जीवितनिरपेक्षकिनारूपम् । दक्षिणारण्ये पथिकलमिति विग्रहः ॥ पतानीति । येषु तपोबनेषु । अतिथिषु विषये साधुरातिथेयोऽतिथिसत्कारः परमः येषां ते पुरुषा इत्यर्थः । यमिन इति द्वितीयान्तम् । पक्कामाधिकारिणो यतीन् भजन्ते सेवन्ते । किचनीबारमुष्टेः पचन यैस्ते गृहिणो गृहाणि भजन्ते । यद्धा यमिन इति हिविशेषणपदं प्रथमान्तम् । यमवन्तः । इद धर्मादीनामप्युपलक्षणम् । आतिथ्यपरमा गृहिणो गृहस्था गृहाणि भजन्त इत्यन्वयः । यद्वा आतिथेयपरमा आतिथ्यापेक्षिणो नीवारमुष्टः पचनं येभ्य इति तोक्का यामिनः पक्वान्नाधिकारिणः कर्तारो गृहिणो गृहस्थस्य गृहाणि भजन्ते । तानि वैखानसर्मुनिभिराश्रितास्तरवो येषु तथोक्तानि एतानीखन्वयः ॥ २५ ॥ अयमविरलेत्यादि । अरण्यपरिणद्धा गोदावरीमुखेषु येषां तानि कन्दराणि यस्य स तथोक्तः । पर्वतानां खतोऽपि नीलत्वान्मेदुरितेत्युक्तम् । स्मरसीति । हे सुतनु शोभना तजुर्यस्या इति विग्रहः । तनूरित्यूहन्ताद्वा संयुद्धौ इखः ।