पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सप्तमोऽङ्कः।

(ततः प्रविशति लक्ष्मणः।)

 लक्ष्मणः-भोः, किं नु खलु भगवता वाल्मीकिना सब्रह्मक्षत्रपौरजानपदाः प्रजाः सहास्माभिराहूय कृत्स्न एव सदेवासुरतिर्यनिकायः सचराचरो भूतग्रामः स्वप्रभावेन संनिधापितः । आदिष्टश्चाहमार्येण 'वत्स . लक्ष्मण, भगवता वाल्मीकिना खकृतिमप्सरोभिः प्रयुज्यमानां द्रष्टुमुपनिमन्त्रिताः सः । गङ्गातीरमातोद्यस्थानमुपगम्य क्रियतां समाजसंनिवेशः' इति । कृतश्च मामर्त्यस्य भूतग्रामस्य समुचितस्थानसंनिवेशो मया । अयं तु-

  राज्यानमनिवासोऽपि प्राप्तकष्टमुनिव्रतः ।
  वाल्मीकिगौरवादार्य इत एवाभिवर्तते ॥ १ ॥


अथ समप्रप्रयोजनकोडीकाररूपनिर्वहणसंधि सप्तमेन बक्ष्यन् चमत्कृतिविशेषलाभाय परित्यागानन्तरभाविनी सीतायाः दशामन्तर्नाटकेन विवक्षुस्तदुपक्षेपिकां लक्ष्मणप्रवेशवती रहरचनामाह-ततः प्रविशति लक्ष्मण इति । ततः षष्ठाइप्रयोगादनन्तरम् । भोः किं नु खल्वित्यादि।भो इति हृदयं प्रति सबुद्धिः । किं नु संनिधापित इति योजना । भगवता पाहुण्यवता । ब्रह्म ब्राह्मणाः, क्षत्रं क्षत्रियाः, पौराः अवशिष्टाः पुरवासिजनाः, जानपदाः देशवासिजनाः, एतैः सहिताः । अस्माभिः सह प्रजा आहूथ कृत्र एवाखण्डल एव देवाः इन्द्रादयः, असुराः निऋतिप्रभृतयः, तिर्यचः नागादयः, एतेषां निकायो वर्गस्तेन सहितः भूतानां प्राणिनां प्रागः समूहः । सचराचरः सस्थावरजङ्गमः । वप्रभावेन खतपःशक्त्यतिशयेन किं नु संनिधापितः । किं न्विति विस्मये। आचेंण रामेणादिष्टः आज्ञप्तः । स्वकृति खग्रन्थमू । आसरोभिव उर्वशीप्रभृतिभिः प्रयुज्यमानाममिनीयमानां द्रष्टुमुपनिमन्त्रिताः सः आवश्यकत्येनाहूता भवामः । गङ्गातीरं गमाकूलम् । आतोद्यस्य नृत्तगीतवाद्यसमुदायस्य स्थान प्रवर्तनाधिकरणमुपगम्य प्राप्य समाजस्य सदसः संनिवेशः यथोचितस्थानविभागः क्रियतामित्यादिष्टश्चाहमिति पूर्वेणान्वयः । सीताया गङ्गाजलादुद्गमनसौकर्याय गङ्गातीरस्य रङ्गत्वकल्पनम् । सलिलादुपैति हि वक्ष्यते । मलः मरणाहः, अमर्त्यः तदनईः । मत्यश्चासावमत्यश्चेति विशेषणयोः समालः । नित्यानित्यात्मकस्येत्यर्थः । भूतग्रामस्य पृथिव्यादिभूतसमुदायस्य समुचितस्थानस्याधिकारानुरूपस्थानस्य सैनिवेशं प्रतिष्ठापनम् । पूर्वमाज्ञापनप्रकारकथनमद्य खनुष्ठानकथनमिति पुनरुक्तिः । अयं तुराज्येति । राज्यं भूमिपरिपालनात्मकराजकर्म । तदेवाश्रमः खैराचारप्रतिबन्धकनियमविशेषः । सुखाल्पत्वदुःखभूयस्त्वाभ्यामाश्रमत्वरूपणम् । प्राप्त कष्टं दुरन्तरूपं मुनिव्रतं येन तथोक्तः । वाल्मीकी