पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६३
सप्तमोऽङ्कः।

(ततः प्रविशति रामः ।)

 राम:-वत्स लक्ष्मण, अपि स्थिता रङ्गप्राश्निकाः।

 लक्ष्मण:-अथ किस् ।

 रामः-इमौ पुनर्वत्सौ कुमारचन्द्रकेतुसमा प्रतिपत्ति लम्भयितव्यौ ।

 लक्ष्मण:---प्रभुस्नेहप्रत्ययात्तथैव कृतम् । इदं चास्तीर्ण राजासनम् । तदुपविशत्वार्थः ।

 रामः--(उपविश्य ।) प्रस्तूयतां भोः।

 सूत्रधार:-(प्रविश्य ।) भगवान्भूतार्थवादी प्राचेतसः स्थावरजहम जगदाज्ञापयति-न्यदिदममाभिरारेण चक्षषा समुद्धीक्ष्य पावन वचनामृतं करुणाद्भुतरसं च किंचिदुपनिबद्धम् । तत्र काव्यगौरवादवघातव्यमिति ।


वाल्मीकेवी गौरवागुरुत्वप्रतिपत्त्या पूजनीयवानुसंधानेन ॥१॥रहस्य नाट्यस्थानस्थ प्राश्निका. सामाजिकाः । रगस्थले राज्ञा सह द्रष्टार इत्यर्थः । प्रश्नं ज्ञातव्यार्थजिज्ञासामहन्तीति प्राधिकाः । तदर्हाधिकारीयञ् । समस्तशास्त्रनिष्णातहृदया इति भावः ॥ अथ किमिलङ्गीकारे । इमौ वत्सौ । कुशलवावित्यर्थः । कुमारश्चासौ चन्द्रकेतुश्च तेन समां प्रतिपत्ति लालनीयवादिधियं लम्भवितव्यौ प्रापयितब्यौ ॥ प्रभो राज्ञः स्नेहेन कुशलवविषयप्रीत्या यः प्रत्ययस्तथैव कार्यमिति व्यवसायः । तस्मादिदं चात्तीर्णं राजासन सिहासनस्यास्तीगासंभवेऽपि अन्यत्तयोग्यमासनमास्तीर्णमिति मन्तव्यम् । कृत्स्त्र एव सदेवासुरेति ब्रह्मेन्द्रादीनामपि तत्र संनिधारितत्वोक्त्या तदैकरूयाच सिहासनातिरेकेणास्तीर्णाहासनस्यैव युक्तत्वात् । एतेनात्र कवेः प्रमादवचनं प्रत्युक्तम् , अत एव 'स चापि रामः परिषद्गतः शनैर्बुभूषचासकमना बभूव है' इति बालकाण्ड टोके परिषद्गत इति सिहासनादवरुह्य परिषदि जनानामुत्थानाशङ्कया शनैः स्थित इति ब्याख्यातमस्मदाचार्यैः । स रामादय इत्यर्थः । प्रस्तूयत्तामभिनय आरभ्यतामित्यर्थः ॥ प्रविश्य सूत्रधारः । अन्तनाटकीयसूत्रधारः प्रविश्याहेत्यर्थः । भगवान् ज्ञानादिषाच- ण्यपूर्णः । भूतार्थ सत्यमभिधेय वदतीति भूतार्थवादी । 'सुष्यजातौ' इति णिनिः । युक्त क्ष्मादावृते भूतम्' इति कोशः। प्रचेतसो वरुणस्थापत्य पुमान् प्राचेतसः । स्थावरं च तब्बअमं च विशेषणयोः समासः । आज्ञापयति अकरणदण्डप्रयोजकविधिराज्ञा तां करोतीत्यर्थः । आर्षेणालौकिकेन चक्षुषा दृष्ट्या योगजप्रत्यासत्तिसहकृतपरिशुद्धान्तःकरणेन समुवीक्ष्य सम्यगतिशयेन साक्षात्कृत्य । अत्र रहस्यं च प्रकाश च यथावत्संभप- इयसि' इत्यादिक द्रष्टव्यम् । पावनं स्वदर्शनादन्येषां शुद्धिजननम् । अनेन 'काव्यालायांश्च दर्जयेत्' इति निषेधोऽन्यपर इति सूचितम् । वचनरूपममृतं सुधा यस्सिस्तथोकम् । भोग्यत्वेन सादृश्यरूपणम् । करुणश्चाद्भुतश्च करुणाद्भुतौ रसौ यस्मिंस्तथोक्तम् । इष्टजनविधीगजन्यदुःखातिभूमिरूपः शोकः सहकारिभूतविशिष्टदेशकालकाध्यनि-