पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४३
षष्ठोऽङ्कः ।

 विद्याधरी-दिडिआ एदेण विमलमुत्तासेअसीअलसिणिद्धमसिणमंसलेण पाढेहप्पंसेण आणन्दसंबलिदधुण्णमाणवेअणाए अद्धोदिदो एव . अन्दरिदो मे संदावो।

 विद्याधरः-अयि, किमत्र मया कृतम् । अथवा ।

  न किंचिदपि कुर्वाणः सौख्यैर्दुःखान्यपोहति ।
  तत्तस्य किमपि द्रव्यं यो हि अस्य प्रियो जनः ॥ ५ ॥

 विद्याधरी-कहं अविरलविलोलधुण्यमाणविज्जुल्लदाविलासमंसलेहि मत्तमहूरकण्ठसामलेहिं ओत्थरीअदि गभोङ्गणं जलहरेहिं ।

 विद्याधरः--कुमारलवप्रयुक्तवारुणास्त्रप्रभावः खल्वेषः । कथमविरलप्रवृत्तवारिधारासंपातैः प्रशान्तमेव पावक्रास्त्रम् ।

 विद्याधरी पिअं मे पिकं मे।

 विद्याधरः-हन्त भोः, सर्वमतिमात्रं दोषाय । यत्प्रलयवातोत्क्षोभगम्भीरगुलुगुलायमानमेवमेरितान्धकार नीरन्धनद्धमिव एकवारविश्वअसनविकटविकरालकालमुखकन्दरविवर्तमानमिव युगान्तयोगनिद्रानि-


 १. दिष्टया एतेन विमलमुक्ताशैलशीतलस्निग्धमसूणमसालेन नाथदेहस्पर्शनानन्दसंदलितपूर्णमानवेदनाया अर्धोदित एवान्तरितो मे संतायः ।

 २. कथमविरलविलोलघूर्णमानविद्युल्लताबिलासमांसलैमत्तमयूरकण्ठश्यामलैरवस्तीर्यते नभोगणं जलधरैः।

 ३. प्रियं मे प्रियं मे।


नेहयुक्तेन भरहणेन चाकचक्यक्ता मासलेन स्फीतेन । सर्वत्र विशेषणसमासः । आनन्देन संदलिता वर्तिता बेदन बलिस्तथोक्तः । अन्तरितस्तिरोहितः ॥ मया विमत्र कृतम् । न किमपीयर्थः । न किंचिदपीत्यादि । पूर्व व्याल्यातम् ॥५॥ बिलोलाः वेपमानाः घूर्णमानाः वेष्टमानाः । अवतीर्यते आच्छाद्यते । 'अवतीर्यते' इति च पाठः ॥ आग्नेयास्त्रप्रतिद्वन्द्वलावरुणात्र प्रयुक्तम् । धारासंपातैधीरासम्यक्पतनै प्रशान्त निर्वापितम् ॥ अतिमात्र प्रमाणातिकान्त दोषाथ । कल्पत इति शेषः । प्रलयवातेन कल्पान्तमारुतेन उत्क्षोभाः अतिशयितक्षोभयुक्ताः गम्भीराः अनल्पाः गुलगुलायमानाः गुलगुलु इलाकारकवर्णध्वनियुष्का ये मेधास्तमैदुरितेन सान्द्रितेन अन्धकारेण नीरन्ध्रमविरलं नद्धमिव बद्धमिव । एकेन वारेण क्षणेन विश्वस्म प्रपञ्च स्य