पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४२
उत्तररामचरिते

  त्वष्टृयन्त्रभ्रमिभ्रान्तमार्ताण्डज्योतिरुज्ज्वलम् ।
  पुटभेदो ललाटस्थनीललोहितचक्षुषः ॥ ३ ॥

आं ज्ञातन् । जातक्षोभेन चन्द्रकेतुना प्रयुक्तमप्रतिरूपमाग्नेयमस्त्रम् , यस्यायमग्निकच्छरसंपातः संप्रति हि ।

  अवदग्धवर्वरितकेतुचामरै-
   रपयातमेव हि विमानमण्डलैः ।
  दहति ध्वजांशुकपटावलीमिमां
   नवर्किशुकद्युतिसविनमः शिखी ॥ ४ ॥

 आश्चर्यम् । प्रवृत्त एवायमुच्चण्डवज्रखण्डावस्फोटपटुरटत्स्फुलिङ्गगुरुरुचालतुमुललेलिहानोज्ज्वलज्ज्वालासंभारभैरवः भगवानुषर्बुधः । प्रचण्ड श्वास्य सर्वतः संपातः । तत्प्रियामंशुकेनाच्छाद्य सुदूरमपसरामि ।

(तथा करोति ।)


पदद्वयनस्य च वक्ष्यमाणवाक्यद्वचेनान्वयः । त्वष्ट्रिति । स्पष्टशाणचक्रमित्रान्तमाण्डज्योतिः किम् । उज्ज्वल: ललाटस्थनीललोहिदचक्षुषः रुद्रललाउनेत्रस्य पुटभेदो नु उन्मीलनु । अथवा कि न्वित्येकगेव पदम् । मार्ताण्डज्योतिरुज्ज्वल इत्येकपद पुटभेदविशेषणम् । ज्योतिरिवोज्ज्वलतीति तदः ॥३॥ जातक्षोभेन प्रकृतिविपर्यासता । आमेयमभिदैवल्यम् । शरसंपातः इषुधारा । अवदग्धेति । अवदग्धानि प्रायेण दुग्धानि यर्वरितानि यानि दाहजबर्बरवानेयुक्तानि केतवः शुदध्वजाचामराणि वालव्यजनानि येषां तथोकैः । अपयातम् । भावे क्तः । नवपलाशकुसुमकान्तिसदृशाः शिखी अग्निः । ध्वजाः महाकेतवः तेषामंशुकालि चीरांशुकानि तान्येव पटाः । सामान्यविशेषशब्दवोः कर्मधारयः । 'उत्तरीये वस्त्रमात्रे सूक्ष्मवन्त्रेऽपि चांशुकम्' इति रत्नमाय । अंशुकपदं सूक्ष्ममात्रपरं नोबलीव न्यायेन । नेपामावलीम् । ध्वजलक्षणकान्तिव्याजपुतानीति वार्थः । अत्र ध्वजाच अंशुकपाश्चेति विग्रहः।न्याजपर्यायः कपटशब्दः । अशव एव ध्वजव्याजेन वर्तन्त इति लाभात्तेजिष्ठव ध्वजाला लभ्यते । किचायमामेयाग्निरग्निमपि दहतीति असंवन्धेऽपि संबन्धादतिशयोक्तिरिति अपद देन सह संकरः ॥४॥ वनखण्डस्याशनिशकलस्य अवस्कोटः स्फुटनं तद्वत्पटु तीक्ष्ण रथा तथा रटन् स्फुलिङ्गगुरुः कणबहुलः । उत्तालतुमुलं यथा तथा अतिशयितसंकुलं यथा तथा लेलिहानः शं कवलनपरः । लिहधातोर्यड्लुकि चान । उउज्वलज्ज्यालासंभारेण ज्वालातिशयेन भैरवः भयकरः । उबर्बुधः अग्निः । अस्याने संपात : सम्यक्पतनम् । प्रचण्ड: अतितीक्ष्णः ॥ विमलमुक्ताशैलबद निदोषमौक्तिकपर्यंतवत् शीतलेन निग्धेन