पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३५
पञ्चमोऽङ्क:।

खल्यार्य, क्षत्रधर्मः परिपालितो भवति । न रश्रिनः पादचारमभियुञ्जन्तीति शास्त्रविदः परिभाषन्ते ।

 सुमन्त्र:-(स्वगतम्) आः, कष्टां दशामनुप्रपन्नोऽसि ।

  कथं हीदमनुष्ठानं मादृशः प्रतिषेधतु ।
  कथं वाभ्यनुजानातु साहसैकरसां क्रियाम् ॥ २१ ॥

 चन्द्रकेतु:-यदा तातमिश्रा अपि पितुः प्रियसखं त्वामर्थसंशयेषु पृच्छन्ति तत्किमार्यों विमृशति ।

 सुमन्त्रः-आयुष्मन्, एवं यथाधर्ममभिमन्यसे ।

  एष साङ्ग्रामिको न्याय्य एष धर्मः सनातनः ।
  इयं हि रघुसिंहानां.वीरचारित्रपद्धतिः ॥ २२ ॥

 चन्द्रकेतुः-अप्रतिरूपं वचनमार्थस्य ।

  इतिहासं पुराणं च धर्मप्रवचनानि च ।
  भवन्त एव जानन्ति रघूणां च कुलस्थितिम् ॥२३॥

 सुमन्त्र:-(सस्नेहालं परिष्वज्य।)

  जातस्य ते पितुरपीन्द्रजितो निहन्तु-
   र्वत्सस्य वत्स कति नाम दिनान्यमूनि ।


प्रथम वीरपुरुषजा भवति । क्षत्रश्नः खल्पपि परिपालितोऽनुष्ठितो भवति । पादचार पदाति रथिनो नाभियुञ्जन्तीति न युञ्चन्तीति ज्ञानविदः क्षत्रधर्मप्रतिपादकार्थशास्त्रज्ञाः परिभाषन्ते निवच्छन्ति ॥ कथं हीति । इदमनुष्ठानं राजपुत्रस्य रथादवतरणं प्रतिषेधतु निषिद्ध्यात् । निवर्तयेदित्यर्थः । साहलेकरसां साहसशकृत्येकवेषां क्रिया अनुष्टानमभ्यनुजानातु अनुमन्येत ॥ २१॥ तातमिश्रा अपि । मिनशब्द. पूज्यवाची रामादयोऽप्ति अर्थसंशयेषु अनुष्टयाननुछेवसंदेहेषु पितुः प्रियसखं दशरथप्रियसखं त्वां पृच्छन्ति जिज्ञासा बोधयन्ति ॥ यथाधमै क्षत्रधर्मावतिकमेण । एष इति । सङ्ग्रामे भवः साङ्गामिकः एषः वीरपुरुषपूजारूपः न्याय्यः उचितः । एष धर्मः क्षत्रधर्मपरिपालनरूपा रानातनश्चिरंतनः । इचं पूर्वोक्तदुयी वीरचारित्रपद्धतिः वीरव्यापारपरिपाटी ॥ २२ ॥ अप्रतिरूप निस्तुलम् । इतिहासमिति । इतिहासं रामायणभारतादिकम् । पुराण 'सर्गश्च प्रतिसर्गश्च इत्याद्युक्तलक्षणकम् । धर्माः निल्सनैमित्तिकादयः प्रोच्यन्ते प्रकाश्यन्ते एभिरित्यथै 'करणाधिकरणयोश्च' इति ल्युट । मन्वादिस्मृतयस्ता इत्यर्थः । कुलस्थिति कुलमर्यादाम् ॥ २३ ॥ जातस्येति । यत्ल चन्द्रकेतो, पितुर्जातस्य त्वत्पितरस्मच्छिशोरिन्द्रजितो निहन्तुर्वत्सस्य लक्ष्मणस्य अमूनि दिनानि । एतावान् जीवितकाल इति यावत् । कति नाम किवन्ति नाम । बदा वत्सस्य जातस्यामू-