कुमारौ - अन्योन्यमुद्दिश्य ।)
एतस्मिन्ममृणितराजपट्टकान्ते
थमिव सायकाः शरीरे
यत्प्राप्तौ मम परिरम्भणाभिलाषा-
दुन्मीलत्पुलककदम्बमङ्गमास्ते ॥ १८ ॥
किं चाक्रान्तकठोरतेजसि गतिः का नाम शस्त्रं विना
शस्त्रेणापि हि तेन किं न विषयो जायेत यस्येशः ।
किं वक्ष्यत्ययमेव युद्धविमुखं मामुद्यतेऽप्यायुधे
वीराणां समयो हि दारुणरसः स्नेहक्रमं बाधते ॥ १९ ॥
सुमन्त्रः-(लव निर्वर्ण्य सास्रनात्मगतम् ) हृदय, किमन्यथा परिप्लबसे ।
मनोरथस्य यहीजं तदैवेनादितो हृतम् ।
लतायां पूर्वलनायां प्रसवस्योद्भवः कुतः ॥ २० ॥
चन्द्रकेतु:---अवतराम्यार्य सुमन्त्र, स्यन्दनात् ।
सुमन्त्रः-कस्य हेतोः।
चन्द्रकेतुः--एकस्तावदयं वीरपुरुषः पूजितो भवति । अपि च
प्राणिनः अन्तः सीव्यति अन्तःस्यूतानि करोति ॥ १७ ॥ एतस्मिन्निति । राजपहनीलर कपश्वस्त्रे तत्कान्ते कमनीये एतस्मिन् लवे चन्द्रकेतौ वा । परिरम्भणाभिलाषादालिङ्गनेच्छया । उन्मीलत्पुलककदम्बमुद्यद्रोमाञ्चनिकुरम्बम् ॥१८॥ किं चेति । किंच पूर्वोक्तादन्यत् । आक्रान्तकठोरतेजसि आक्रान्त प्राप्त कठोरं पूर्ण तेजः पराभिभवनसामर्थ्य यस्य तस्मिन्विषये शस्त्रं विना का गतिः शस्त्रसाधनकयुद्धाहते कि कर्तव्यम् । न किमपीत्यर्थः । तर्हि शरीरसौभाग्यानुरोधेन शस्त्रन्यासः क्रियतामिलनाह-शस्त्रेणेति । यस्य शस्त्रस्य ईदृशः महावीरःन जायेत तेन शस्त्रेणापि किम् । न किमपीत्यर्थः। तह सौकुमार्यवीर्ययोः प्राबल्यदौर्बल्यविचारेण सौकुमार्यानुसारेण शस्त्रन्यासः क्रियताम्यत्राह-उद्यतेऽप्यायुधे युद्धविमुखं मामयमेव किं वक्ष्यति । यत एवं ततः दारुणरसः कौ.कवेषः शूराणां समयः आचारः स्नेहकसं नेहव्यापारपरिपाटी याचते निवर्नयति ॥ १९ ॥ अन्यथा संभाव्यविषयानुसारेण परिलबसे चञ्चलीभवति । रामसादृश्यात्तदपत्यं लब इति कि शङ्कसे इति भावः । मनोरथस्येति । मनोरथस्य अभिलष्यमाणलवनिष्टरामापत्यत्वस्य यद्वीज सीतारूपं तदादितो हृतं गर्भिणीदशायामेव नटम् । 'लूनपूर्षायाम्' इति पाठे पूर्व लूना छिन्ना तथाविधायाम् । भूतपूर्वनिर्देशात् लूनशब्दस्य पूर्वनिपातः । 'पूर्चलूनायाम् इति पाठे तु पूर्वस्मिन् काले लूनेयर्थः । प्रसवस्य पुष्पस्य ॥ २० ॥ वीरपुरुषः लवः पूजितस्तावाद्भवति । योरवतरणप्रयोजनयोः