पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११७
चतुर्थोऽङ्कः

  मनो मे संमोहस्थिरमपि हरत्येष बलवा-
   नयोधातुं यद्वत्परिलधुरयस्कान्तशकलः ॥ २१ ॥

 लव:--(प्रविय ।) अविज्ञातवयःक्रमौचित्यात्पूज्यानपि सतः कथमभिवादयिष्ये । (विचिन्व) अयं पुनरविरुद्धमकार इति वृद्धेभ्यः श्रूयते । (सबिनयमुपसल ।) एष वो लवसा शिरसा प्रणामपर्यायः ।

 अरुन्धतीजनकौ-कल्याणिन्, आयुष्मान्भूयाः ।

 कौसल्या-जाद, चिरं जीव ।

 अरुन्धती--एहि वत्स । (लवमुत्सझे गृहीत्वा । आत्मगतम्) दिष्टया न केवलमुत्सङ्गश्चिरान्मनोरथोऽपि मे पूरितः ।

 कौसल्या-जाद, इदो वि दाव एहि । (उत्सङ्गे गृहीत्वा ।) अम्हहे, ण केवलं दरविप्पटकन्दोट्टमंसलुज्जलेण देहबन्धणेण कवलिदारविन्दकेसरकसाअकण्ठकलहंसघोसघाघराणुणादिणा सरेण अ रामभई अणुसरेदि । णं कठोरकमलगभप्फम्मलसरीरप्पस्सो वि तारिसो एव्य । जाद,


 १. जात, चिरं जीव।

 २. जात इतोऽपि तावदेहि । अहो न केवलं दरांवेस्पष्टकुवलयमांसलोज्ज्वलेन देहबन्धनेन कवलितारविन्दकेसरकषायकण्ठकलहंसघोषधर्घरानुनादिना स्वरेण च रामभद्मनुसरति । ननु कठोरक्रमलगर्भपक्ष्मलशरीरस्पर्शी-


हेन मूच्र्छया स्थिरमपि काष्ठवनिष्पन्दमपि मे मनश्चित्तं परिलबुरल्पः अयस्कान्तशकल: अयस्कान्तखण्डः अयोधातुं यद्वलोपिण्ड मिव हरति कर्षति । अत्र विनयशिशिरो मौग्ध्यमसृण इत्याभ्यां सलिलहिमोपष्टम्भेन ज्योत्नीभवतां सूर्यतेजसा सादृश्यं व्यज्यते ॥२१॥क्रमः सत्काराद्यानुपूर्ये वयः स्थाविरादिकं वचःकमस्तस्यौचित्य प्राप्तवता । ज्ञात च तद्वयःमौचित्य तस्याभावः अज्ञातवयःक्रमौचित्यम् । अर्थाभावे अव्ययीभावः । अ. पक्षम्या इति प्रतिषेधादम्भावो न । तथा च वयःक्रमौचित्यज्ञानाभावादित्यर्थः । क्र. यमभिवादचिध्ये केन क्रमरूपप्रकारेण नमस्करिष्ये । अविरुद्धः अविपरीतः प्रकारोऽनुष्टानविशेषः । सामान्यवृद्धविषयकप्रणामकरणरूप इति भावः । सभायां प्रत्येक न नमस्कुर्यादिति गौतमस्मरणमिहाभिप्रेतम् ॥ उत्सके अङ्के । दिष्टयेत्यानन्दे । उत्सङ्गः केवलं न पूरितः किंतु मनोरथोऽपि पूरित इत्यर्थः ।। जातेति संबोधनम् । विपटमिति विस्तृतवाचकम् । कन्दोडशब्दः कुवलयवाची । घरच कांस्यध्वनिस्तद्वदनुकरणं तथाविधेन । अनुसरति अनुकरोति । कठोरस्य समप्रस्य कमलस्य गर्भवदान्तरपत्रवत्पश्मलः स्फीतः तादश एव राभद्रस्पर्श सदृश एव । चुबुकनवराधोदेशम् । निपुणं निरूप्यमाणः हेतुभिः पटुतरं विचार्यमाणः । अयमिति शेषः । मुख