पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११६
उत्तररामचरिते

 मौा मेखलया नियन्त्रितमधो वासश्च माञ्जिष्ठकं
  पाणौ कार्मुकमक्षसूत्रवलयं दण्डोऽपरः पैप्पलः ॥ २० ॥

भगवत्यरुन्धति, किमित्युत्प्रेक्षसे कुतस्त्योऽयमिति ।

 अरुन्धती-अद्यैष व्यमागताः ।

 जनकः-आर्य गृष्टे, अतिकौतुकं वर्तते । तद्भगवन्तं वाल्मीकिमेव गत्वा पृच्छ। इमं च दारकं ब्रूहि । वत्स, केऽप्येते प्रवयसस्त्वां दिदृक्षव इति ।

 कञ्चुकी यदाज्ञापयति देवः । (इति निष्कान्तौ ।)

 कौसल्या-कि मण्णेध । एवं मणिदो आअमिस्सदि वा ण वेति ।

 जनक:-भिद्यते वा सद्वृत्तमीदृशस्य निर्माणस्य ।

 कौसल्या–(निरूप्य )) कहें सविणअणिसमिदगिट्टिवअणो विसजिदासेससरिसदारओ एत्तोमुहं अवसारिदो एव स बच्छो ।

 जनक:---(चिरं निर्वर्ण्य 1) भोः, किमप्येतत् ।

  महिम्नामेतस्मिन्विनयशिशिरो मौग्ध्यमसृणो
   विदग्धैर्नियाह्यो न पुनरविदग्धैरतिशयः ।


 १. किं मन्यध्ये । एवं भणित आगमिष्यति वा न घेति ।

 २. कथं सविनयनिशमितगृष्टिवचनो विसर्जिताशेषसशदारक इतोमुखमपसरित एव स वत्सः।


नया नियन्त्रितं माअिष्ठं मनिष्ठरकं वासः अधः उरसोऽधस्तात् । क्षत्रियब्रह्मचारिणा मेखलेत्युक्तं माजिष्टं राजन्यस्य इति च । पाणौ कार्मुकं धनुरक्षसूत्रवलयं जपमालिकाबलयम् । अस्तीति शेषः । 'अपरे पैप्पलः' इति पाठे अपरे पाणौ अश्वत्थदण्डः । 'अपरः पैप्पलः इति पाठे धनुर्दण्डादपरः । अन्य इत्यर्थः ॥२०॥ कुतस्त्यः कस्माद्भवः ॥ अतिशथितं कौतुकं विशिष्टचस्तुजिज्ञासौत्कण्ठ्यम् । प्रबयसो वृद्धाः । दिदृक्षवः द्रष्टुमिच्छवः ॥ थदाज्ञापयतीत्यत्र तदनुतिष्ठामीति शेषः ॥ एव भणितः प्रवयसस्त्वां दिदृक्षव इत्युक्तः सन् आगमिष्यति किमिति मन्यध्दे । कि संदिग्धे ॥ ईदृशस्य लोकोत्तरस्य निर्माणस्थाकारस्य । निर्मीयते यनिर्माणम् । कर्मगि ल्युट । 'कृत्यल्युटो बहुलम् इत्युक्तेः। सद्वृत्तं सदाचारो भिद्यते या। छिन्नं भवति किमित्यर्थः। कर्मवत्कर्मणा' इति यगात्मनेपदे॥ सविनयं निशमितं श्रुतं गृष्टिवचनं येन तथोक्तः ॥ एतद्वक्ष्यमाणं किमपि अपूर्वमिवर्षः । तदाह- महिनामित्यादि। विनयेन ज्ञानवृद्धशीलवृद्धसन्निधौ खनिकर्षपर्यवसाव्यवस्थानेन शिशिरः शीतलः मौग्ध्येन वाल्येन मसूणः पौरुष्यरहितः । बिदग्धैः सूक्ष्मदर्शिभिर्निग्रीह्यो निणेयः । अविदग्वैः पुनर्न प्राह्यो निर्णेतुमशक्यः । एतस्मिन्महिमामतिशयः लवनिष्ठप्रकृष्टज्ञानतेजःप्रकृतिगुणादिमाहात्म्यानामुत्कर्षः। संमो-