पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११२
उत्तररामचरिते

 अरुन्धती-हा कष्टम् । अतिचिरनिरुद्धनिःश्वासनिप्पन्दहृदयमस्याः ।

 जनक:--हा प्रियसखि । (इति कमण्डलूदकेन सिम्बति ।)

 कचकी-

   सुहृदिव प्रकटय्य सुखप्रदा
    प्रथममेकरसामनुकूलताम् ।
   पुनरकाण्डविवर्तनदारुणः
    परिशिनष्टि विधिर्मनसो रुजम् ॥ १५ ॥

 कौसल्या--(आश्वस्य ।) हो वच्छे जाणइ, कहिं सि । सुमरामि दे णवविवाहलञ्चीपरिग्गहेक्कमङ्गलं संप्फुल्लमुद्धमुहपुण्डरीअं आरुहन्तकौमुदीचन्दसुन्दरम् । एहि मे पुणो वि जादे, उज्जोएहि उच्चङ्गम् । सञ्चहा महाराअ एवं भणादि । एसा रहुउलमहत्तराणं वहू अम्हाणं दु जणअसुदा दुहिदेव ।


 १. हा वत्से जानकि, कुत्रासि । मरामि ते नवविवाहलक्ष्मीपरिग्रहेकमङ्गलं संकुल्लमुग्धमुखपुण्डरीकमारुहत्कौमुदीचन्द्रसुन्दरम् । एहि मे पुनरपि जाते, उद्योतय उत्सङ्गम् । सर्वदा महाराज एवं मणति । एषा रघुकुलमहत्तराणां वधूरस्माकं तु जनकसुता दुहितैब।


प्रसादानुष्ठाने कोपानुष्ठान वा । मदधीनमभूदित्यर्थः । स्मृत्वालम् । तत्स्मरणेन सा अं नास्तीत्वर्थः । यदृदयमबस्कन्धाक्रम्य दहति भरलीकरोति । तस्मृत्वाल कोपत्रसादयोरन्यविषयत्वं च पाठद्वये क्रमाद्विवक्षितम् । तत्र हि परस्परेत्युक्तिरुपलक्षणार्थी ॥१४॥ निरुद्धाः संचाररहिताः श्वासाः प्राणवायवो यस्मिन् तथोक्त निष्पन्दं च ॥ मुहदिति । विधिः प्रथममादौ सुहृदिव मित्रमिव सुखप्रदामेकरसामेकप्रकारामनुकूलतां योगक्षेमहेतुभूतां प्रकटय्ब प्रकाशयित्वा पुनरनन्तरमकाण्डेन निनिमित्तेन विवर्तनेन ब्यत्यस्तपरिपाकेन दारुणः सन् क्रूरः सन्मनसो रुजं हृदयपीडा परिशिनष्टि परिशिष्टां करोति । अकाण्डनिवर्तनेन दारणोऽकाण्डनिवृत्तो भू.वेलच्याहुः । सुहृदपि त्यक्त्वा गतश्चन्मन:- पीडां करोतीति साम्यम् ॥ १५॥ नवविवाहलक्ष्याः परिग्रहेण एक मुख्य माल बस्य तथोक्तम् । कौमुद्यां कृत्तिकापौर्णमास्यां भवश्चन्द्रः कौमुदीचन्द्रः । आरोहन्ती प्राटुभवन्ती या कौमुदीचन्द्रचन्द्रिका तद्वत्सुन्दरमहं यस्यास्तथोका । उत्सझममुद्योतय उपवेशेन प्रकाशय । सर्वदा सर्वस्मिन्काले महाराजो दशरथः । एषा सीता रघुकुले महत्तारा ये मनुप्रभृतयस्तेषां वधूः स्नुषा । जनकमुना सीता अस्माकं तु मम तु दुहितैव मदभिप्रायेण दुहितैवेत्येवं भणति ॥ देवी कौसल्या यथाह । तथैवेति शेषः ।