पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११३
चतुर्थोऽङ्कः

 कक्षुकी—यथाह देवी ।

  पञ्चप्रसूतेरपि तस्य राज्ञः
   प्रियो विशेषेण सुबाहुशत्रुः ।
  वधूचतुकेऽपि तथैव नान्या
   प्रिया तनूजास्य यथैव सीता ॥१६॥

 जनक:- हा प्रियसख महाराज दशरथ, एवमपि सर्वप्रकारहृदयंगमः कथं विस्मयते ।

  कन्यायाः किल पूजयन्ति पितरो जामातुराप्तं जनं
   संबन्धे विपरीतमेव तदभूदाराधनं ते मयि ।
  त्वं कालेन तथाविधोऽप्यपहृतः संबन्धबीजं च त-
   दोरेऽस्मिन्मम जीवलोकनरके पापस्य धिग्जीवितम् ॥१७॥

 कौसल्या-जादे जाणइ, किं करोमि । दिवजलेवपडिबद्धणिञ्चलं हदजीविदं मं मन्दभाइणी ण पढिन्चअदि ।


१. जाते जानकि, किं करोमि । दृढवज्रलेपप्रतिबन्धनिश्चलं हतजीवितं मां भन्दभागिनी न परित्यजति । पञ्चमसूतेरिति । पञ्च प्रसूतयः पुत्राः यस्य तथोकस्यापि । तस्य राज्ञः पशिरवस्य सुबाहुशत्रुः रामः विशेषेण प्रियः इष्टः । पञ्च प्रसूतयो यस्मिन् वन्दे इति वा निग्रहः । निर्धारणे षष्ठी । 'तृतीयादिषु भाषितपुंस्कं पुंबगालवस्य' इति पाक्षिकः पुंवद्भावः । पञ्चानां मध्ये रामः प्रिय इत्यर्थः। रामादयश्चत्वारः शान्ता चेति पञ्च । वधूचसुष्केऽपि सीतादिनुषाचतुषयेऽपि अस्य जनकस्य तनूजा सौता यथा तस्य राज्ञो दशरथस्य प्रिया तथा अन्या ऊर्मिलाप्रभृतिः रानः प्रिया न । अस्य तनूजा सीतेत्यनेन सीताया एव जनकाभिसंधिना तनूजाले नान्चासामिति व्यज्यते । वधूवतुकेऽपीति निर्धारणे सप्तमीदर्शनात् ॥१६॥ सर्वैःप्रकारैर्धमः हृदयंगमः। कन्याया इति। संबन्धे कन्यावरतंयन्धे। कन्यायाः पितरो जनन्यः जनकाच जामातुर्वरस्याप्त संनिहितवन्धुं जनंपूजयन्ति किल स्वभावयन्तीति प्रसिद्धम् । तदाराधनं पूजनं ते मयि विपरीतमभूत् । त्वत्कर्तृकमद्विषयकपूजनं सत् प्रतिलोमं जातमित्यर्थः । तथाविधोऽपि त्वं कालेनापहृतः । मया पूज्यमानं भवन्तं भ्रष्टुमन्याय्यं तावद्भाग्याभावेऽपि केदलं ना भवन्तं द्रष्टु मदीयदैबदुर्विपाको नाक्षम्यतेति भावः । संबन्धबीजं सीता चापहतं लिडविपरिणामः । पूर्वोकन्दोरभावेऽपि तादृशभवदभिमता सीतापि दैवेन नाक्षम्यतेति भावः । घोरे भयंकरे अस्मिन्नेवविधबहुदुःखभाजने जीवलोकबिले पापस्य पूजनविपर्यासादिहेतुभूतदुरितप्रचुरस्य मम जीवितं प्राणधारणं धिक् । तत्कार्मिका िन्देत्यर्थः । अत्रेदानी भवत्पू-