पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
चतुर्थोऽङ्कः।

(ततः प्रविशतस्तापसौ)

 एकः-सौधातके, दृश्यतामद्य भूयिष्ठसन्निधापितातिथिजनस्म समधिकारम्भरमणीयता भगवतो वाल्मीकेराश्रमपदस्य । तथाहि ।

  नीवारोदनमण्डमुणमधुरं सद्यःप्रसूताप्रिया-
   पीतादभ्यधिकं तपोवनमृगः पर्याप्तमाचामति ।
  गन्धेन स्फुरता मनागनुसृतो भक्तस्य सर्पिष्मतः
   कर्कन्धूफलमिश्रशाकपचनामोदः परिस्तीयते ॥ १ ॥


तत इति । तापसौ तपःशीलौ । एकः । तयोरन्यतर इत्यर्थः । सुधातुरपलं सौधातकिः । सुधातुरकइन्च' इत्यकड्टादेश इञ्प्रत्ययश्च । तस्य संबुद्धिः सौधातके इति। अद्य मध्याहे भूयिन्छ यथा भवति तथा सन्निधापितः निकटागामितः अतिथिजनो यस्मिन्निति तथोक्तस्य भगवतो वाल्मीकेः ज्ञानशक्वादिपूर्णस्य प्रचेतसस्य यदाश्रमपदं आश्रमस्थान तस्य समधिकारम्मेण अनुरतरमारभ्यमाणातिथि जनसत्कारादिना रमणीयता हृद्यता दृश्यतां चक्षुर्विषयीक्रियताम् । त्वयेति शेषः । नीवारेति । तपोवनमृगः तपोवनाश्रयो मुनिसंवर्धितहरिणः । सद्यः समानेऽलि । तसिन्दिन इत्यर्थः। प्रसूता प्रसववती । कर्तरि क्तः । तथाविधया प्रियया प्रियविषयहरिण्या पीतात पानं प्राप्य । भावे क्तः 1 स्यब्लोपे पञ्चमी । अभ्यधिकं अवशिष्ट प्रचुर वा हरिणीकर्तृकं वा पानं प्राप्यापि प्रचुरमित्यर्थः । ष्णं च तत् मधुरं च माधुर्यबुक्कं चेति विशेषणसमासः । तथाविध नीवारोदनमण्ड नीवारो धान्यविशेषः तत्संयन्थ्योदनस्य यन्मण्ड घनीभूतद्भवविशेषः तत्पर्याप्तं यावदिच्छानिवृत्ति आचामति पिबति । यद्वा सद्यःप्रसूतप्रियापीतादिति हेतौ पञ्चमी । सद्यःप्रसूतप्रियाकर्तृकपानाद्धेतो: अभ्यधिक यथा भवति तथा प्रचुरं यथा भवति तथा उष्णं मधुरं चेयर्थ, । अत्र सद्यःप्रसूतत्वमुष्पात्वे हेतुः । उष्णत्वं हि प्रसवविद्यालशरीरतोदपरिहारकम् । प्रियात्वं च मधुरत्वे हेतुः । अत एव मधुरत्वोक्तिः प्रयोजनबती । अन्यथा तस्य माधुर्याच्यभिचारात्तद्वैयचं स्पष्टमेव । इदमेवाभिसंधाय 'अम्बुनीवारशष्पैः' इत्यत्र अम्बुना तरूलू अम्बुनीवाराभ्यां शकुनीन् अम्बुनीवारशपः कुरक्षानिति विवेक उपक इति बोध्यम् । अत एवं पर्याप्त यावदिच्छानिवृत्ति आचामति पिबति । सर्पिमतः धृतवतः भरतस्यान्नस्य स्फुरता प्रसरता गन्धेन सौरभ्येण मनागीषद मुसृतः अनुगतः कर्कन्धूफलमिश्रस्य बदरीफलमिश्रस्य शाकपचनस्थ पच्यमानशाकस्य । बदरीफलानि हि आत्मरसार्थ शाकेन सह पच्यन्ते । आमोदः सौरभ्य परिस्तीयते विस्तीयेते विततीक्रियते । वाथुनेति शेषः । यद्वा परित्तीर्यवे विस्तीर्णो भवतीत्यर्थः । लूचते केदारः खयमेवेसादाविव कमेबद्भावायगात्मनेपदे । अथवा सर्पिष्मतो भक्तस्य स्फुरता गन्धेन का अनुसृतः अनुक्षणं असर्पन अर्कन्धूफलमिश्रशाकपचनामोदः कर्म