पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ईशावास्यदीपिका ।

ज्ञानं कोमलं ब्रह्मज्ञानं वा । अविद्यां च द्वितीयमन्त्रोक्तानि कर्माणि ।चकारावुपायोपेयमावेन समुच्चयार्थौ । यः संजातवैराग्यः कर्म परित्य क्तुमशक्तोऽन्तरालावस्थस्तत्कर्म ज्ञानं च वेद जानाति । उमयमुक्तमुपायोपेयभावेन सह कर्मोपायो ब्रह्मज्ञानमुपेयमिति मिलितम् । एवमुपायोपेयज्ञानवतः फलमाह-अविद्यया द्वितीयमन्त्रोक्तेन कर्मज्ञानेन संयोगप्रथक्त्वन्यायेन मृत्युमात्मज्ञानोत्पादप्रतिबन्धकं स्वाभाविक कर्म ज्ञानं च दुःखकारणं तीर्त्वात्मज्ञानोत्पादेनातिक्रम्य विद्ययाऽहं ब्रह्मास्मीति साक्षात्कारेणामृतं ब्रह्मात्मत्वमश्नुते व्याप्नोति स एव भवतीत्यर्थः । यदा तु ज्ञानकर्मणोरेव समुच्चयो न तु तज्ज्ञानयोस्तदोपायोपेयशब्द विहायाऽऽत्मज्ञानशब्दस्थले च देवताज्ञानमिति शब्दं पठित्वा-आभूतसंप्लवं स्थानममृतत्वं हि भाष्यत इति न्यायेनामृतं ब्रह्मलोकमिति व्याकु- र्यात् ॥ ११ ॥

| इदानीं व्याकृताव्याकृतयोरुपासनस्य समुच्चयार्थमाह-अन्धं तमः प्रविशन्ति येऽसंभूतिमुपासते । ततो भूय इव ते तमो य उ संभूत्यां रताः । अन्यदेवाऽऽहुः० अश्नुते । असंभूतिम् । संभूतिः सम्यग्भवनमुत्पत्तिर्यस्य तत्कार्य संभूतिः । तद्वयतिरिक्तामव्याकृतरूपामसंभूतिं कारणं संभूत्यां कार्ये व्याकृते संभवाद्याकृतोपासनादसंभवादयाकृतोपासना- संभूतिमव्याकृतं विनाशेन विनाशवतः कार्यस्योपासनेन संभूत्या सम्यग्भवति यस्मात्कार्यं तत्कारणमव्याकृतं संभूतिस्तदुपासनेन शेषं कर्म देवताज्ञानसमुच्चयवन्मन्त्रत्रयेऽपि व्याख्येयम् ॥१२॥१३॥१४॥  कार्यकारणात्मादित्यमण्डलस्थः पुरुषः समुच्चयद्वयेनापि संप्राप्योऽतस्तत्प्रार्थनामन्त्राः-हिरण्मयेन ।' सुवर्णविकारेणेव ज्योतिर्मण्डलेन पात्रेण शरावसद्दशेन घटस्येव सत्यस्य बाधरहितस्यापिहितमाच्छादितं मुखं प्रतीकं प्रधानभूतं तद्धिरण्मयं पात्रं त्वं कार्यकारणात्मा पूषन्हे पुष्टिकारिन्नपावृण्वपसारय । अपसारणे कारणमाह-सत्यधर्मायावितथमावाय भवते दृष्टये दर्शनार्थं तव दर्शनार्थमित्यर्थः ॥ १५ ॥

 इदानीं तत्संबोधनानि कार्यान्तरार्थं पूषन्हे पूषन्नेकर्ष एकश्चासावृषिश्चैकर्षिस्तत्संबोधनमेकर्ष एकाकित्वेन गन्तः । यम हे नियन्तः ।सूर्य हे सुष्टुगमन प्राजापत्य हे प्रजापतेरपत्यभूत । इदानीं कार्यमाहव्यूह, उपसंहर रश्मीन्किरणान्समूह सम्यक्स्वात्ममात्रं कुरु तेजश्चन्द्रम