पृष्ठम्:ईशावास्योपनिषत् (शांकरभाष्योपेता).pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
शंकरानन्दकृतेशावास्यदीपिका ।-

ण्डलम् । तत्रापि प्रयोजनमाह-यत्प्रसिद्धं ते तव रूपं स्वयंज्योतिः-स्वभावं कल्याणतममतिशयेन कल्याणमानन्दात्मरूपं तदुक्तं ते तव पुनस्तेशव्द उपचारनिवारणार्थः । पश्यामि साक्षात्करोमि । द्रष्टद्दश्यप्रयुक्तं भेदं वारयति-यः प्रसिद्धोऽसावादित्यमण्डलस्थः परोक्षोऽसौ शास्त्रदृष्ट्या प्रत्यक्षः पुरुषः परिपूर्णः स उक्तो यः: प्रसिद्धः स एवाहमस्मत्प्रत्ययालम्बनोऽस्मि भवामि ॥ १६ ॥

 एते मन्त्रा हिरण्मयेनेत्यारभ्य पठिताः समुच्चयानुष्ठायिनाऽसकृन्नित्यं पठनीयाः । अन्तकाले तु सर्वार्थानुसंधानपुरःसरमात्मानमादित्यरूपंध्यात्वा वायुः प्राणरूपोऽनिलं बाह्यवायुं यात्विति शेषः । अमृतमानन्यात्मरुपं सोऽहमस्मीति पूर्वेण संबन्धः । अथ वायुनिर्गमनानन्तरमिदं प्रत्यक्षं भस्मान्तम् । भस्मान्ते यस्मात्तद्धस्मान्तं शरीरं स्थूलं पार्थिवं पृथिवीं यात्विति शेषः । ॐ ॐकाराभिधेयेशाभिन्नाऽऽत्मन्नादित्य क्रतो संकल्पात्मन्स्मर मां त्वदुपासकं स्मर कृतं मयाऽनुष्ठितं ज्ञानं कर्म च स्मर । स्पष्टम् । क्रत आदित्याभिन्न संकल्पात्मन् । हे जीवाऽऽत्मानं ‘स्मर स्पष्टम् । आत्मना कृतं स्मर ॥ १७ ॥

 उपास्यं देवतां संप्रार्थ कर्मसाधनभूतां देवतां प्रार्थयते--अग्ने हेऽग्ने नय प्रापय सुपथा सम्यमार्गेण राये सुवर्णार्थं कर्मफलभूतायेत्यर्थः ।अस्मान्समुच्चयानुष्ठातृन्विश्वानि सर्वाणि देव हे देव वयुनानि ज्ञानानि विद्वञ्जानन्युयोधि वियोजयास्मदुपासकेभ्यो जुहुराणं कुटिलमेनः पापं भूयिष्ठामतिशयेनाधिकां ते तुभ्यं नमउक्तिं नमस्कारोक्तिं विधेम विधास्यामः सर्वदा कुर्म इत्यर्थः ॥ १८ ॥ इति श्रीशंकरानन्दकृतेशावास्यदीपिका संपूर्णा ॥ .