पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

Mantrapada 51 चतुर्भुजं सौम्यवक्त्रं श्यामलं. कोमलाकृतिम् । वामोरुपादेनासीनं लम्बेतरपदाम्बुजम् ।।

शरचापौ तथा खड्गं क्षुटिकां दधतं भुजैः ।
पूर्णेन्दुवदनं चारूनीलकुञ्चितकुन्तलं ।।
हारिहाराभिरामाङ्गमाबद्धोदरबन्धनम् ।

किरीटचारुकेयूरकटकाङ्गलिवेष्टनैः । तथैव कटिसूत्रेण नूपुराभ्यां च विभ्रतम् ।

नीलकौशेयवसनमाबद्धकरवालकम् ।। 

श्क्ताकल्पं सुपीनांसं सर्वसौन्दर्यकेतनम् ।

वामतोऽस्य प्रभां देवीं रक्तामुत्पलधारिणीम् ।।
अष्टवर्षांकृति चापि सत्यकं दक्षिणे सुतम् ।

ध्यात्वावाह्य तु शास्तारं देवं सावरणं यजेत् ॥

The god has eight forms which are Goptā, Pingalākşa, Virasena, Sambhava, Trinetra, Sulabhrd, Daksa and Bhimarupa each representing a particular aspect of his personality. He is fond of hunt.

Kșetrapāla is installed in the precincts of a temple to protect the region. There are two stanzas describing his form to be worshipped. They are as follows : पायादञ्जनपुञ्जकुञ्जरघटानीलाञ्जनाम्भोदवद् दोभ्यां खण्डकपालमप्यथ गदां व्योमाम्बरो भीषणः ।

दंष्ट्रादन्तुरितास्यवृत्तक पिशस्त्र्यक्षोर्ध्वकेशालक:

सर्पाकल्प शिरः स्रगञ्चितवपुः क्षेत्रेश्वरो वश्चिरम् ।।

व्यालम्बोर्ध्वंजटाधरं त्रिणयनं नीलाञ्जनाद्रिप्रभं

दोर्द्वन्द्वात्तगदाकपालमरूणस्रग्वस्त्रगन्धोज्ज्वलम् ।

घण्टाशृङ्खलमेखलाध्वनिमिलद् घुङ्कारभीम विभुं

वन्दे मण्डलिताहिकुण्डल धरं तं क्षेत्रपालं सदा ।।

Caņạeśvaramantra gives prosperity. The worship of Indra would secure landed property and wealth. The form of the god is given as follows:

पीतवर्णं चतुर्बाहुं वज्रपद्माङ कुशाभयान् । दधतं चारुसर्वाङ्गं पीतकल्पविभूषणैः ।। किरीटकर्णिकाहारकेयूराद्यैर्विभूषितम् । हेममण्डपमध्यस्थं . हेमसिंहासनाम्बुजे ॥