पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशान शिवगुरुदेवपद्धतौ [सामान्यपाद: तदष्टपत्राग्रगता मूर्तयोऽष्टौ हविर्भुजः । अग्निः स्यात् प्रथमा मूर्तिर्वैश्वानरहुताशनौ ॥ २२२ ॥ जातवेदा हुतवहो हुतवर्मा ततः परम् । तथा देवमुखः सप्तजिह्वश्चेत्यष्टमूर्तयः ॥ २२३ ॥ जातवेदाः सप्तजिह्वो हव्यवाहस्तथापरः । अश्वोदरस्तथैवाजस्ततो वैश्वानराह्वयः ॥ २२४ || तद्वत् कौमारतेजाश्च विश्वेदेवमुखस्तथा । अग्नयेपदपूर्वाः स्युर्मूर्तयोऽष्टौ परे जगुः ॥ २२५ ॥ शक्तिस्वस्तिकसाभयं सवरदं काश्मीररक्तद्युतिं शुक्लालेपनमाल्यदामवसनं भास्वज्जटामण्डलम् । व्यालोलामलहाररत्नमकुटं तं हेमनालोज्ज्वलं ध्यायेत् सौम्यमभीष्टदं हुतवहं त्र्यक्षं प्रसन्नाननम् ॥ २२६ ॥ हिरण्या गगना रक्ता कृष्णाच्या त्वथ सुप्रभा । बहुरूपातिरक्ता च सात्त्विक्यः सप्त कीर्तिताः ॥ २२७ ॥ पद्मरागा सुवर्णी च भद्रलोहितलोहिते । श्वेता च धूमिनी चैव करालीति रजोन्विताः ॥ २२८ ॥ विश्वमूर्तिस्फुलिङ्गिन्यौ धूम्रवर्णा मनोजवा । विलोहिता कराली च काली चेति तमोन्विताः ॥ २२९ ।। धातुनीजैर्विलोमोक्तैर्वह्निवायू मभूषितैः । • पूर्वादिदिक्षु जिह्वाः स्युर्वसुधारेशकोणगाः ॥ २३० ॥ दैवेष्वपि च नित्येषु सात्त्विक्यः शान्तिकेष्वपि । शस्ताः काम्येषु राजस्यस्तामस्यः क्रूरकर्मसु ॥ २३१ ॥ देवताः पितृगन्धर्वा यक्षनागाः पिशाचकाः । क्रमेण जिह्वाधीशाः स्युस्तथैव ब्रह्मराक्षसाः || २३२ ॥ सर्वदेवमयी ख्याता वसुधारोपजिह्निका । तस्यां काम्यानि शस्तानि शेषाः स्युर्वैदिकोदिताः ॥ २३३ ॥ प्रणवादिनमोन्तं तु मूर्तीर्जिह्वास्तथार्चयेत् ।