ईशान शिवगुरुदेवपद्धतौ [सामान्यपाद: पात्रमत्र विहितं त्रिविधं तत् पालिका च घटिका च शरावम् । विष्णुपद्मभवशङ्करदैवं तत्त्रयं पृथगनुक्रमशः स्यात् ॥ ३ ॥ अङ्गुलैः कृतिमितैः स्फुटमुच्चा पालिकावदनविस्तरतोऽपि । उत्तमा च यरयाङ्गुलसंख्ये मध्यमाघमविधौ कथिते वै ॥ ४ ॥ पाद विस्तृतिरथोर्ध्वमिता स्यात् तत्त्रिभागमितकण्ठबिलं च । दण्डवद् भवति शिष्टमशेषं कण्ठतुल्यं परिणाहमनोज्ञम् ॥ ५ ॥ व्याससोच्छ्यसमा घटिकाख्या तालमात्रामह पञ्चमुखी स्यात् । दिक्षु तन्मुखचतुष्टयमेकं मध्यमं तु समवर्तितभागम् ॥ ६ ॥ तालविस्तृतमुखं तु शरावं तत्समोच्छ्यमतोऽर्धमिताङ्घ्रि । दण्डकस्य चतुरङ्गुलनाहं कण्ठमस्य बिलवर्ज्यमुदग्रम् ॥ ७ ॥ सम्भवे कनकरूप्यकताम्रैर्मार्तिकान्यभिनवान्यथ वा स्युः । क्षालितानि सलिलेन निजास्त्रात् सूत्रवेष्टितगलानि निदध्यात् ॥ ८ ॥ शुद्धमृत्सिकतगोमयचूर्णैः पूरितानि कुशकूर्चयुतानि । मङ्गलाङ्कुरगृहे सविताने पात्रकाणि निदधातु मनोज्ञे ॥ ९ ॥ गोमयाद्भिरुपलिप्य तु भूमिं खाङ्गमूलमनुयुक्तजलास्त्रात् । प्रोक्ष्य पिष्टपरिरूषितसूत्रैरुक्तलक्ष्मविहिते चतुरश्रे ॥ १० ॥ विघ्ननाथमभिपूज्य पुरस्तात् पुण्यकामपि वेदविशिष्टैः । वाचयेदधिकमेकमशीते स्यात् पदं तु विहितं चतुरश्रे ॥ ११ ॥ मध्यतो नवपदैरथं शुक्लं कर्णिकाष्टदलकेसरशोभि । आलिखेत् सरसिजं तु रजोभिः शालिभि: सुविहितोच्छ्रितमध्यम् || तत्र सूत्र विनिवेष्टितकुम्भं धूपितं तु विनिधाय कुशेषु । द्वादशान्तगलितामृततोयैः पूरयेत् सकुशकूर्चहिरण्यम् ॥ १३ ॥ पिप्पलाम्रनवपल्लवगन्धैर्माल्यदामकुसुमाक्षतवस्त्रैः । शालितण्डुलफलाढ्यविधानं वस्त्रयुग्मकुसुमैरभिरामम् ॥ १४ ॥ मातृकाम्बुजगतं तु कलाभिः षोडशस्वरयुताभिरुपेतम् । तं विभाव्य शिशिरांशुमुदंशुं तारकेशमुडुंचक्रसमेतम् ॥ १५ ॥ 'रुच्यक' ग. पाठः●
पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२४५
दिखावट