सामग्री पर जाएँ

पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

इशानशिवगुरुदेवपद्धतौ [सामान्यपादः चन्दनोशीरतोयाह्रैर्मांसीकुष्ठं मुरागरू । कुङ्कुमं चेति वै गन्धमष्टाङ्गं वैष्णवं विदुः || ५८ || पुष्पाणि चैव कथ्यन्ते प्राग्वच्छेवादिभेदतः । तान्याग्नेयानि सौम्यानि सौम्याग्नेयानि च त्रिधा ॥ ५९ ॥ सात्त्विकानीह शुक्लानि राजसान्यरुणानि तु । कृष्णानि तामसानि स्युः पीतं राजससात्त्विकम् ।। ६० ॥ श्यामं तमोरजोमिश्रं पत्रेष्वप्येवमेव हि ! सात्त्विकाद्यैस्तु कुसुमैः फलं स्यात् सात्त्विकादिकम् || ६१ ॥ श्वेतार्कं करवीरकं च कमलं दुर्धूरकारग्वधे 1. राजार्कं च सिताम्बुजं च तुलसीसाशोकसच्चम्पकैः । कल्हारं बकपाटले बकुलकं द्वे मल्लिके मालती- पालाशस्थलपद्मदर्भदम (ने ? नै)र्मार्गच्छदं दूर्वया ॥ ६२ ॥ तद्वद् ग्रन्थिशमीबृहन्मरूवकैः पुन्नागनागासनै- र्नन्द्यावर्ततमालकुब्जविजयामन्दारकाश्मीरकैः । शस्तान्युत्पलकर्णिकार कुसुमैः कादम्बबैल्वान्यभो नीलं चोत्पल मित्यमूनि कुसुमान्युक्तानि शैवान्यलम् ॥ ६३ ॥ ! शेस्ते द्वे तुलसी सिताम्बुजमथो रक्ताब्जपालाशके जातीकुब्जकमाधवीदमनकैः पुन्नागनागासनैः । नन्द्यावर्तशमीस्थलाब्जविजयासन्मल्लिकाचम्पकै- र्बिल्वं चोत्पलकेतकाद्यभिनवं कुन्दं तथा पाटलम् ॥ ६४ ॥ लक्ष्मीदेविसहाः सभृङ्गमुसलीभीतेन्द्रवल्ल्यस्तथा भद्रा श्रीपतिलङ्घिता च दशमी दूर्वाथ जम्बूच्छदम् । कहारं करवीरमेकदलकं पद्मं कुशाः कैरवं रक्तं चेति विलोमतोऽधिकफलं पुष्पं भवेद् वैष्णवम् ॥ ६५ ॥ अम्भोजोत्पलबन्धुजीवविजयाः पुन्नागनागान्यथो जाती कुन्दकरण्डचम्पकजपायूथीरमापाटलैः । १. 'तैं', २. 'शते द्वे', ३. 'द्य' ग. पाठः.