पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

इध्मबर्हिषां विधिः] पूर्वार्धे सप्तमः पटलः । आकृष्टिवश्य विषयेषु शराङ्गुलाः स्युः प्रादेशमात्रसमिधोऽप्यविशेषकृत्ये । क्षुद्रेषु पृष्ठमनले जुहुयात् तथामं चाग्नौ जुहोति हि शुभेषु यथोपदेशम् ॥११॥ इध्मोऽष्टादशभिः समिद्भिरुदितः प्रादेशमात्रोऽथवा रत्न्यायाममितः क्वचित् परिधयो हस्तायताः स्युस्नयः । दीर्घो दक्षिणतस्तु पश्चिमशयः स्थूलस्तनुर्ह्रस्वकः सौम्ये कौशिकजाश्च पाळककुशाः श्रेष्ठा हि दर्भाः क्रमात् ॥ १२ ॥ व्यग्रा हस्तनखाहृताः कृमिहताः कर्मान्तरा योजिताः याम्या व्याघ्रविलङ्घनाद्युपहता धूम्रोर्ध्वशुष्कादयः । वर्ज्याः श्यामलकोमलाः प्रतिनवालूनार्द्रशुष्का स्तथा दर्भाः स्युर्यदिहाग्निकार्यपटले वेण्यादिकं चोदितम् ॥ १३ ॥ तत्र त्रिंशद्दर्भदलकृता वेणिः । अष्टयत्यष्टिधृत्यतिधृतिसंख्या वा दर्भाः परिस्तरणे स्युः । तत्त्वसंख्यादभैर्बद्धं कूर्च ज्ञानखङ्गः । दर्भद्वयेन सामान्यम् । दर्भपत्रकेन विशेषकूर्चमिति संहिताटीकायाम् । पञ्चभिः पञ्चभिर्दर्भैः प्रणीताप्रोक्षणीविधौ । कूर्चद्वयं भवेत् सप्तदशभिर्ब्रह्म कूर्चकम् ॥ १४ ॥ द्वादशाङ्गुलकं दण्डं ब्रह्मग्रन्थ्येकमङ्गुलम् । तदग्रं त्र्यङ्गुलायामं कूर्चानां तु प्रकल्पयेत् ॥ १५ ॥ मध्येन प्रथितं तु दर्भयुगलं प्रादेशमात्रं भवेत् संस्कारे तु पवित्रकं स्मृतमथ द्वन्द्वं च विद्योतने । स्रुक्सम्मार्जनके चतुष्टयमिह स्याद् वै कुशानां घृते दर्भाग्रद्वयमङ्गुलायतमथात्रार्काङ्गुलं प्रस्तरे ॥ १६ ॥ तालायताभ्यां दर्भाभ्यां ग्रथितं चतुरङ्गुलम् | पवित्रं स्याद् द्विजातीनां त्रिभिः क्षुद्रेषु हस्तयोः ॥ १७ ॥ ब्रह्मग्रन्थिर्द्विजातीनां स्मृतो हस्तपवित्रके । केवलश्वानुलोमानां दूर्वैव स्त्रीचतुर्थयोः ॥ १८ ॥