पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशान शिवगुरुदेवपद्धतौ गणपतिधनदेशो हंसवाहः सुगन्धो- ऽवतु भुजघृतपाशः साङ्कुशो वो गकारः ॥ ३२ ॥ दशशतपरिवृत्तं तद्विमानोच्चषण्डं कुलिशवरगदाढ्यं ध्येयमुष्ट्राधिरूढम् । द्विभुजमसितयाम्यद्वेषणोच्चाटकृत्यैः स्मरतु च घमुदत्रं यन्मुखोखलेस्थम् || ३३ || त्रिशिखमुसलटङ्कैः शक्तिर्देण्डाहिहस्तं यमपतिमतिकृष्णं षड्भुजं काकवाहम् । स्मरतु भुजगरूढं कोटिदीर्घार्धवृत्तं श्वयथुचरणगात्रं द्वेषणेष्वेकरुद्रम् ॥ ३४ ॥ सितरुचिररिशङ्खौ चाम्बुजं मातुलु दधदरुणसुगन्धस्रग्विभूषः कपर्दी । जगति निखिलभूत्यै पातु वो गुह्यकेशो धरणिकमलसंस्थः कोटिमानस्तु कूर्मः ॥ ३५ ॥ मकरकमलरूढः सूर्यकान्तिः स वोडव्या- दरिजलजगदाब्जान्यादधद् दिव्यगन्धः । धवलवसनगन्धः स्रग्धर: कोटिमानो विमलमणिविभूषो वश्यदस्त्वेकनेत्रः || ३६ || सितकमलशशाङ्कौदुगताबिन्दुवणौ सफलकुलिशपाशौ सौधकुम्भौ दधानौ । दशशतपरिमाणौ वोऽवतां शान्तवर्णौ पलितमृतिगदघ्नौ क्ष्वेलशान्तिप्रधानौ ॥ ३७ || असितमशुभषण्डं दुर्मतिं काकवाहं यमपुरुष मनेकैरायसैर्भूषिताङ्गम् । १. 'द' ग. पाठ:- २. 'मुखम' ख. पाठ: ३. 'संस्थम् ।', ४. 'कैदण्डहं', ५. "ङ्क गर्हताविन्दु' ग. पाठः, ६. 'लालाशों' क. पाठ: ७. 'ताच्छान्त', ८. 'मि' ग० पाठः, [सामान्यपादः