पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ [सामान्यपाद:

कनकफलकरा स्त्री पञ्चगव्यूतिवृत्ता

सितरुचिरमृतार्द्रा हारिहाराभिरामा ।

द्विगुणधरणिबिम्बे हंसगा योजनानां ___
दशपरिणतमूर्तिः पुष्टिदा स्यात् त्रिमूर्तिः ।। २० ॥ 

द्विशतरचितदैर्घ्य विस्तृतं योजनानां शतमतिकटुगन्धं काकवाहं द्विहस्तम् । अनलभवनसंस्थं ताम्रवर्णं सशूलं सगदमखिलरक्षा(!)स्यादयुग्मं तु षण्डम् ॥ २१ ॥

द्विभुजमरुणमग्नेर्मण्डलस्थोष्ट्रवाह __

दशशतविततं तद्वन्द्वदीर्घ त्रियुग्मम् ।

भुजगभुजगवगैर्भूषितं दुष्टगन्धं

स्मरतु विषविघाते षण्डकं शक्तिपाशम् ॥ २२ ॥

कुलिशधरमुदग्रं हंसवाहं सपाशं

द्विलपनमतिपीतं पार्थिवाब्जे सुगन्धम् ।

शतविततिलयुग्मं त्रिंशदायामि षण्डं

स्मरतु रिपुगणघ्नं स्तम्भनं स्वर्णचूडम् ॥ २३ ॥

रथचरणफलास्यं षण्डकं शङ्खपद्म

स्फुरितभुजचतुष्कं चन्द्रकीकण्ठनीलम् ।

सुमुखममलहारं पद्मगन्धं कपर्दि ___ 

स्मरतु निखिलवश्यं झण्डिनं चक्रवाके ।। २४ ॥ द्विभुजगरुडवाहां भूषितां वह्निबिम्बे त्रिशिखकुलिशहस्तां शुक्लवर्णां सुगन्धीम् ।

स्मरतु विमलहारां भौतिकीं वा प्रसूत्यै

प्रविततशतकोटिं योषितं तां तथोच्चाम् ॥ २५ ॥

अखिलभुवनमध्यव्यापकं पीतवर्णं

दशशतभुजयुग्मं द्योतमानं त्रिणेत्रम् । १. 'ले' ख. पाठः. २. 'स्थाष्टवा', ३. 'ल', v. 'ति' ग. पाठः 'व्यं', ६. 'ञ्झिन', .७. 'को', .. धिम्' स्व. पाठः. ५