एतत् पृष्ठम् परिष्कृतम् अस्ति
________________
हलामधिकारः] पूर्वार्धे प्रथमः पटलः। नादः सदाशिवो ज्ञेयो नादान्तस्तु शिवः स्वयम् ।
हकारो व्यक्तिमापन्नो हार्दघोष विवक्षितः ॥ १२ ॥ अकारतां गतस्तस्य भेदो वक्षरसङ्गतिः । ॐकारान्तान्यकारादीन्यक्षराणि षडस्य तु ॥ १३ ॥ विकृतिः स्याद् विशेषेण रेफस्य तु ऋ ऋ लृ लृ । ईकारभेदतस्त्वासन्नेकाराद्यक्षराणि षट् ।। ४४ ॥ इत्थं षोडशधोत्पन्नाः स्वराख्याः शक्तिबीजतः ।
शक्त्यङ्गत्वात् कलास्ते स्युरमृतांशुकलात्मकाः ॥ १५ ॥
ह्रस्वाः स्वरा बिन्दुयुताः पुमांसोऽग्न्यर्करूपिणः । दीर्घस्वरा विसर्गान्ताः स्त्रीलिङ्गाः सोमरूपिणः ॥ ४६ ॥ ऋऋलृलृचतुष्कं तु सौम्याग्नेयं नपुंसकम् । स्वराणामुदयाद्यं तु पुरस्तादिह लिख्यते ॥ ४७ ॥
इति स्वराधिकारः। हकारः शब्दगुणवानकारमसृजत् पुरः । व्योम्नः स्पर्शगुणो वायुः स्पर्शाख्याः कादयोऽभवन् ॥ १८ ।।
पञ्चपञ्चाक्षरास्ते स्युः पञ्चवर्गास्त्विनात्मकाः। याद्यक्षरचतुष्कं तु वाय्वग्निक्ष्माम्भसां तनुः ॥ ४९ ॥ स्पर्शो रूपं तथा गन्धो रसाख्यस्तद्गुणाः क्रमात् । शेषास्तु व्यापकाः शाद्याः साग्नीषोमाः स्वरस्पृशः ॥ ५० ॥
इत्थं पञ्चाशदुत्पन्ना वर्णाः शक्तिप्रभेदतः ।
कादयः पञ्चविंशार्णा यादयः शादयस्तथा ॥ ५१ ।।
स्थानप्रयत्नभेदेन जायन्ते खल्वकारतः अकारादिस्वरैर्युक्तहलां योगान्मिथोऽपि च ॥ ५२ ॥ 1. 'उ' ख. पाठः. २. 'य', ३ 'राः शक्तिप्रभेदतः' ग. पाठ:.