पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/४०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

३९४ ईशान शिवगुरुदेव पद्धतौ सिन्धूत्थाभ्रकमाक्षिकाणि कटुकैः पथ्याक्षधात्रीशिला- भृङ्गाद्भिः शतशः पुटेषु विहितः कान्तस्तथोषामृदा ।

ते तुल्यविभागिकास्तु भसितं सौतस्य मानद्वयं

पिष्टं भृङ्गरसेन मासमदतो मर्त्यस्य मृत्युः कुतः ॥ १६० ॥ वन्ध्याक्षामलनीलिकामधुकरी वाराहिमुण्ड्यो ऽमृता

ब्रह्मगारुड चित्रकासन तुटीस्तुल्यांश चूर्णीकृताः 

। कान्तो भृङ्गरसा(दिर्द्वि)तः शतपुटो भागद्वयं शर्करा -

क्षौद्रालोलितम श्रतोऽब्दमजरं तस्यामरं तद् वपुः ॥ १६९ ॥ अकोलत्रिफलाजगोमयनदी क्षेत्रादिमृद्धिः समैः
पूर्णायामसिताननेन विहितद्रोण्यां सुवर्णालिपाम् (१) । 

संस्थाप्य त्रिफलाम्बुभिः प्रतिदिनं संसिच्य निष्कत्रयं

तच्छुङ्गानि सुपेषितानि पयसा पानेन मृत्युं जयेत् ॥ ११२ ॥

एवं शक्तिविजृम्भितेन विसरल्लिप्यर्णशब्दात्मकं विश्वं युक्तविधानदैवतमया मन्त्राः स्वतन्त्रोदिताः ।

रक्षार्थं जगतां गरमहरुजां ध्वंसो रिपूणां क्रमा-

दत्रेशानशिवेन नर्म च युधां जैत्रं च सन्दर्शितम् ॥ १६३ ॥ इति श्रीमदीशान शिवगुरुदेवपद्धतौ तन्त्रसारे मन्त्रपादे युद्धजैत्रकर्मादिविधिपटलो द्विपञ्चाश: । इति मन्त्रपादो द्वितीयः समाप्तः । समाप्तं च पूर्वार्धम् । शुभं भूयात् ।