पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

३८० प्रलेपाच्च । ईशानशिवगुरुदेवपद्धतौ निम्बाम्भः शर्कराक्षौद्रपाननस्यात् सुखी भवेत् । कर्माणि विस्मापनकानि येषां नर्मादियुक्तान्यभिवाञ्छितानि । [मन्त्रपाद: शर्माणि तेषां मनसो विधातुं मर्माणि जाप्यस्य विनिर्मितानि ॥ ७५३ ॥

इति श्रीमदीशानशिवगुरुदेव पद्धतौ तन्त्रसारे मन्त्रपादे नर्मपटल एकपञ्चाशः 1

अथ द्विपञ्चाशः पटलः । कलिप्रसङ्गकटुकामित्यादौ दर्शितो यतः । कलिर्युद्धमतो युद्धे जयोपायो निगद्यते ॥ सृश्यांदिपञ्चकृत्यार्थं पञ्चमूर्तिर्यतः शिवः । ॥ ततस्तु पञ्चधा पञ्चत्रिंशत्तत्त्वमयं जगत् ॥ २ ॥

तत्रापि पञ्च भूतानि वायवश्चेति तन्मयः । 

सुपर्णः पक्षिराट् तेन निर्मिताः पञ्च पक्षिणः ॥ ३ ॥

ते पञ्चभूतादिमया लिप्यर्णमयविग्रहाः ।
प्राग्याम्याम्योत्तराशासु मध्यकोष्ठं च पञ्चधा ॥ ४ ॥

. पञ्चभूतात्मकं चक्रं तत्र पञ्चापि पक्षिणः ।

चरन्ति पञ्चधा भावैः पञ्चभिश्च क्रमोत्क्रमात् ॥ ५॥ 

कण्टकः पिङ्गला चाथ कारण्डवकसारसौ ।

बहीं च पञ्च विहगाः पूर्वाद्यासु च मध्यतः ॥ ६ ॥ •
अआकडा वछभधा इईखमनजाः शढौ ।

उऊगपा झषणया एऐतरसघाः फथौ ॥ ७ ॥ ओऔचठा दलबहाः पक्षिणां कण्टका" । अष्टावष्टौ पृथग्वर्णा विज्ञेयाः क्रमशो बुधैः ॥ ८ ॥ श्रीकण्ठानन्तविधयो दारुकाम्भोद्विरण्डकाः । मीनैकनेत्रावत्यष्टौ कण्टकस्याक्षराणि हि ॥ ९ ॥

सूक्ष्म त्रिमूर्तिचण्डेशौ विषमेष चतुर्मुखाः । 

बकश्चैवार्धनारीशः पिङ्गलार्णाः प्रकीर्तिताः ॥ १० ॥