पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे अष्टाविंशः पटलः । अर्धारिकार्घहारा वा भागार्घाः स्युश्च भागतः । वेद्राश्रं गर्भभवनं शिखरं चार्धनिर्गमम् ॥ ८४ ॥ शिखरे वेदनास्यः स्युस्तावत्यश्चाल्पनासिकाः | गृहपिण्ड्यां व्यष्टनास्यः कर्णकूटचतुष्टयम् ॥ ८५ ॥ चतुरश्राष्टवृत्तं स्यात् तदन्तः कोष्ठकानि च । निर्गतैः पञ्जरैर्मध्ये चतुर्दिक्षु नियोजयेत् ॥ ८६ ॥ क्षुद्रकोष्ठेर्हस्तितुण्डैः सार्धपञ्जरजालकैः । तोरणैरपि सोपानैरधिष्ठानपदैरपि ॥ ८७ ॥ भूषयेद् युक्तितस्स्वेतच्छ्रीकान्तं सार्वदैवतम् । श्रीकान्तम् । अधिष्ठांना ( दि?दा) शिखरं वृत्तं स्याच्या प्रतिष्ठिते ॥ ८८ ॥ विस्तार त्रिचतुर्भागाद् भागो गर्भगृहं भवेत् । गृहपिण्ड्यलिन्दहाराश्चैकैकांशेन कल्पयेत् ॥ ८९ ॥ गमवेदांश विस्तारा: सभद्रा वेदनासिकाः । गृहपिण्ड्यां षोडश स्युः क्षुद्रनास्यस्तु पूर्ववत् ॥ ९० ॥ बाह्यसंस्थानमन्तलींनप्ररोहणम् । चतुर्दिक्ष्वपि गर्भार्धव्यासनिर्गमकोष्ठकैः ॥ ११ ॥ प्रमाणभवनाङ्गानि सौष्ठिकान्तानि योजयेत् । श्रीप्रतिष्ठितकं नाम्ना विमानं विष्णुमन्दिरम् ।। १२ ।। श्रीप्रतिष्ठितम् । चतुरश्रमधिष्ठानं शिवभद्रस्य तस्य तु । विस्तारेऽष्टनवांशे तु द्वित्र्यंशं गर्भमन्दिरम् ॥ ९३ ॥ गर्भ वेदाश्रकं वृत्तं शिखरं वेदनासिकम् । कुर्याद् गर्भचतुर्थांशं व्यासनास्योऽर्धनिर्गमाः ॥ ९४ ॥ गर्भार्धत्र्यशभागेन गृहपिण्ड्यादयस्त्रयः । खण्डहन्यैश्च कूटाग्रैः परिभूष्य समन्ततः ॥ ९५ ॥