पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

नानाविमावकक्षणाधिकारः ] उत्तर अष्टाविंशः पटलः । 'गृहपिण्डयादिकं प्राग्वत् पिण्डिः षोडश सौष्ठिकाः । अष्टाश्रे कण्ठशिखरे स्यातां तत्राष्टनासिकाः ॥ ६५ ॥ तले तले चतुर्दिक्षु मध्यं भद्रान्वितं भवेत् ।

पञ्चमूर्तिविधानार्थं गर्भविस्तारमानतः ॥ ६६ ॥

तद्दिक्षु कर्णकूटानि त्रिमुखामानि योजयेत् । चतस्रस्तत्र शालाः स्युः कूटकोष्ठादि पूर्ववत् ॥ ६७ ॥

स्वव्यासार्घात् सभद्राणि कूटादीन्यस्य योजयेत् ।

तस्याष्टदिक्षु वा मध्ये नव लिङ्गानि वा न्यसेत् ॥ १८ ॥ अव्यक्तव्यक्तलिङ्गानां सर्वतोभद्रमीरितम् । सर्वतोभद्रम् । वेदाश्रं हस्तिपृष्ठस्याप्यधिष्ठानं तदायतम् ॥ ६९ ॥

ब्यासपादांशतः प्राग्वद् गृहपिण्ड्यादिकं स्मृतम् ।
कूटकोष्ठाद्यवयवं प्राग्वत् सर्व समूहयेत् ॥ ७० ॥
वृत्तं पृष्ठे तु शिखरमयं द्व्यश्रं समं शुभम् ।
स्थितहस्तिसमाकारं शालाकारमुखं च तत् ॥ ७१ ॥
पार्श्वयोः पृष्ठतोऽपि स्युस्तिस्रस्तिस्रश्च नासिकाः ।
गर्भवेदांशविस्तारास्तदर्धं च विनिर्गताः ॥ ७२ ॥

ब्रह्मद्वारपताकाभिः कपोताद्यैश्च भूषयेत् । एकानेकतलं वैतद् ब्रह्मविष्ण्वीशमन्दिरम् ॥ ७३ ॥

हस्तिपृष्ठम् ।

समुज्ज्वलस्याधिष्ठानं समवेदाश्रकं स्मृतम् ।

सतृतीयांशतो गर्भ त्रिभागार्धपिण्डिकम् ॥ ७४ ॥
अलिन्दं चैव हारं च तन्मानेनैव योजयेत् । 

गर्भत्रिभागविस्तारा अर्धनीप्राश्च नासिकाः ॥ ७५ ॥

चतसः स्युस्तदर्धेन तावत्यः क्षुद्रनासिकाः ।

वृतं शिखरसंस्थानं पिण्डयां नास्यस्तु षोडश ॥ ७६ ॥ २०१