पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशाशिवगुरुदेवदत पार्श्वयोरर्धकोष्ठाभ्यां नासीषट्केण मूर्धनि । लवमानामिषग्राहिविहङ्गवदवस्थितम् ॥ ५४ ॥ एकादितलसम्पन्नं प्रलीनं शिवमन्दिरम् | प्रलीनकम् । स्वस्तिकस्याप्यधिष्ठानं व्यासपादांशमायतम् ॥ ५५ ॥ चतुरश्रं तु तद्व्यासादष्टनन्दांशतः क्रमात् | द्वित्र्यंशं स्याद् गर्भगृहं गृहपिण्ड्यादि पूर्ववत् ॥ ५६ ॥ शिखरं दीर्घवेदाश्रं पुरा गर्भार्धमानतः । निर्गता स्यान्महानासिस्तदर्धात् पार्श्वनासिका ॥ ५७ ॥ शिखरे चाल्नास्योऽष्टौ सर्वा नास्यः सभद्रकाः । कोष्ठानि खण्डहर्म्याणि स्वास्तिकाभांनि योजयेत् ॥ ५८ ॥ कूटकोष्ठाद्यवयवं प्राग्वत् सर्वं तु कारयेत् । स्वस्तिकम् । अधिष्ठानादिशिखरात् समवृतं चतुर्मुखम् ॥ ५९ ॥ नालीगृहार्धारिकाद्यं स्वस्तिकोक्तप्रमाणतः । दिक्षु वेदमहानास्यो गर्भपादांशनिर्गताः ॥ ६० ॥ शिखरे मध्यतस्तासां तदर्धेनाल्पनासिकाः । नालीगृहव्याससमां समांशकांशनिर्गमाम् ॥ ६१ ॥ गृहपिण्डि चतुर्दिक्षु मध्ये च परिकल्पयेत् । समभद्राः कर्णसभौश्चतस्रः कल्पयेत् समाः ॥ ६१ ॥ कूटकोष्ठादिकं प्राग्वद् यथाशोभं तु योजयेत् । चतुर्दिक्षु मुखाकारैर्भद्रैर्युक्तं चतुर्मुखम् ॥ ६३ चतुर्मुखम् । चतुरश्रमधिष्ठानं सर्वतोभद्रकस्य तु । तद्दिङ्नन्दाष्टभागैः स्याद् गर्भं वेदाग्मिनेत्रतः ॥ ६४॥ 'को' क. पाठ:. २. 'शिखामंदी' ख. पाठः ३. 'हा' ग, पाठ: