पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

18 ईशामशिवनुरुदेवपद्धतौ जायतेऽध्वा यतः शुद्धो वर्तते यत्र लीयते । सबिन्दुः परनादाख्यो नादबिन्द्वणुकारकम् || इति रत्नत्रये । "नादाख्यं यत् परं बीजं सर्वभूतेष्ववस्थितम् । मुक्तिदं परमं दिव्यं सर्वासिद्धिप्रदायकम् ॥ सान्तं सर्वगतं शून्यं मात्राद्वादशकस्थितम् । ह्रस्वा ब्रह्म समाख्याता दीर्घा द्यङ्गानि षण्मुखे ! ॥” इति कालोत्तरे । “अथादावभवच्छब्दः कारणादक्षरं ततः । अक्षरान्मोक्षदं ब्रह्मन् ! ब्रह्म ब्रह्मविदो विदुः ॥" इति स्वायम्भुवे । रत्नत्रयेऽपि - 1 - " स तु शब्दश्चतुर्धा वाग्वैखर्यादिविभेदतः । जायते बिन्दुसंक्षोभादनन्तस्यार्थसिद्धये ॥” "चत्वारि वाक्परिमिता पदानि " इति श्रुतिश्च । [[किपापा शक्तिर्नादो महामाया व्योमेति च चतुर्विधः । बिन्दुरेवास्य तु पुनश्चतस्रो वृत्तयः स्मृताः ॥ ११३ ॥ वैखरी मध्यमा चैव पश्यन्ती चापि सूक्ष्मया । व्युत्क्रमेण भवन्त्येताः कुण्डलिन्यादितः क्रमात् ॥ ११४ ॥ सूक्ष्मा कुण्डलिनी मध्ये ज्योतिर्मात्रात्यणीयसी । अश्रोत्रविषया तस्मादुद्गच्छन्त्यूर्ध्वगामिनी ॥ ११५ ॥ स्वयम्प्रकाशा पश्यन्तीं सुषुम्नामाश्रिता भवेत् । सैव हृत्पङ्कजं प्राप्य मध्यमा नादरूपिणी ॥ ११६ ॥ अन्तःसञ्जल्पमात्रास्यादविभक्तोर्ध्वगामिनी । सैवोरः कण्ठतालुस्था शिरोघ्राण द्विजोपगा ॥ ११७ ॥ जिह्वामूलोष्ठनिष्ठयूता कृतवर्णपरिग्रहा । ११८ ॥ शब्दप्रपञ्चजननी श्रोत्रग्राह्या तु वैखरी ।। हकारः सविकारोऽथ रेफेण समयुज्यत ॥ ११९ ॥ ईकारमभजत् तस्माद् बिन्दुनादविभूषितम् ॥ १२० ॥ शक्तिबीजं तु तद्योगादखिलोत्पत्तिकारणम् ॥ १२१ ॥