पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२१८ [क्रियापादः णारोप्यासति स्थण्डिले समावाह्याभ्यर्च्य तन्निर्माल्यादिकमशेषं चण्डनाथाय समर्पयेत् । "अथवा स्थण्डिले चण्डं पीठस्थं + + पूजयेत् । " इति सोमशम्भुः । ओम्, यत् किञ्चिद् वार्षिकं कर्म कृतं न्यूनाधिकं मया ॥ १२२ ॥ सर्वे तदस्तु सम्पूर्ण चण्डनाथ ! तवाज्ञया । इति तं प्रार्थयेत् पश्चाद् गन्धाद्यैरर्चयेदपि ॥ १२३ ॥ पायसं च निवेद्यास्मै नत्वा स्तुत्वा विसर्जयेत् । तन्निर्माल्यादिकं सर्वमन्धकूपेऽथवाम्भसि ॥ १२४ ॥

प्रभूते निक्षिपेत् तन्तुञ्जप्त्वा छित्त्वा विशेषतः ।
अथ संशोध्य भूमिं तु सलिलैगोमयाप्लुतैः ॥ १२५ ॥
ततस्त्वष्टोत्तरशतैः कलशैर्वाथ शक्तितः ।
नवनाथवा देवं स्नपयेदुक्तमार्गतः ॥ १२६ ॥

सविशेषं च सम्पूज्य प्राप्नोत्यविकलं फलम् । पवित्रमेवं प्रतिवत्सरं तु यः करोति भक्त्या स्खलिताभिपूरणम् । अवाप्य पूजादिफलं स चाखिलं प्रयाति शम्भोः पदमव्ययं शिवम् ॥ १२७३ ॥ इति श्रीमदीशानशिवगुरुदेव पद्धतौ सिद्धान्तसारे उपरिभागे क्रियापादे पवित्रारोपणपटल एकविंशः ॥ अथ द्वाविंशः पटलः । अथोच्यते दामनकी तु पूजा वासन्तिकी तुष्टिकरीन्दुमौले: ।

यदाश्रमं हैमवतं तु देवो देव्या विहीनश्चिरमध्युवास ॥ १ ॥
नन्दीश्वराचैः सहितो गणेशैरुपास्यमानश्च मुनीन्द्रवृन्दैः ।
स्वात्मानमात्मन्यवलोक्य शश्वत् सबीजयोगं प्रथयन् समाधिम् ॥ २ ॥
कालेऽथ तस्मिन् किल तारकाख्यों जित्वा सुरेन्द्रं सह देववृन्दैः
सन्तापयामास नितान्तमुग्रः कल्पान्तसूर्यप्रतिमोsसुरेन्द्रः ||३