पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

समयदीक्षाधिकारः] अत्र ब्रह्मशम्भुः SOROWDED उत्तरार्धे षोडशः पटलः । "नाद्विजो युज्यते सिद्ध्या न च निर्वाणमश्नुते । द्विजोऽपि हि यतस्तेन कुर्यात् तं द्विजसत्तमम् ॥" इति । एतस्माद् द्विजानां जात्युद्धारेण द्विजोत्तमत्वं च पशुजातिमोक्षाच्छिव- त्वं (च) भवति । शुद्धस्थापि शुद्धत्वपशुभावव्या वर्तनाच्छिवत्वलक्षणद्वितीयजन्म जात्यु- रेण भवतीत्यतो दीक्षितः शूद्रो भवति, किन्तु शिवसंस्कारजातस्य शिवत्वसम्भवात् पूर्वजन्मव्यपगमाच्च वेदमन्त्रव्यतिरिक्तशैवमन्त्रतन्त्र श्रवणपू- जासु योग्यता भवति । १४७ ननु शिवसंस्कार जात्युद्धाराच्छूद्रस्य द्विजत्वमस्ति चेत् किमिति वेद- मन्त्रानधिकारित्वमिति चोघे ब्राह्मण्यां ब्राह्मणाज्जातस्यापि वैदिकमन्त्रैरुप- नयनेन संस्कृतस्य वैदिकद्विनस्यैव वेदेऽधिकारः, कारणानुगुणकार्यत्वात्, तद्वच्छैवमन्त्रसंस्कृतस्य तदनुगुणद्विजत्वसिद्धौ तन्मन्त्रपूजादावेवाधिकार इत्यु - पपन्नम् । तत्राचार्य: स्वहृत्पद्मे मायापर्यङ्कशोभिते ॥ ६८ ॥ •रागतत्त्वस्तृते रम्ये पशुसंज्ञोपधानके । विद्याप्रदीपे सुश्लिष्टौ स्मरेद् विद्यापती शिवौ ॥ ६९ ॥ तौ च संपूज्य मनसा पशुं पश्चात् समुद्धरेत् । तस्य हृत्पङ्कजे जीवं प्रोक्ष्य सन्ताड्य हेतिना ॥ ७० ॥ रेचकेन स्वयं मूर्ध्ना निर्गत्य तु सुषुम्नया । शिष्यदेहं प्रविश्यात्महृत्पद्मस्थं तु पुद्गलम् ॥ ७१ ॥ उद्धरेच्छेदविश्लेषौ विधायास्त्रेण चाकुशात् । आकृष्य चोर्ध्वं नाड्या तु द्वादशान्ते निवेश्य तु ॥ ७२ ॥ अभिपूज्य ध्रुवेणाथ तारं हंसं च कारकम् । ✔ अपेदिति यावत् । संहारमुद्रया तस्मात् समाहृत्य तु पुद्गलम् ॥ ७३ ॥ अथ पूरकेण स्वहृदयाब्जे शिवयोर्गर्भे निवेश्य कुंम्भकेन समरसीकृत्य मनसाभ्यर्च्य तत्र विद्यायां जातं विचिन्त्य रेचकेन सुषुम्नयोर्ध्वं नीत्वा ब्रह्म-