उत्तरार्धे द्विषष्टितमः पटलः । विकीर्यास्त्रेण सम्पूज्य विपरीताम्बरावृतम् । मृद्गोमयजलैः पूतं स्थापयेद् भस्मनापि च ॥ २४ ॥ आच्छाद्याहतवासोभिः कुण्डोपान्ते निविश्य तु | तद्देहे धारणाशुद्धे संहारिण्या तु मुद्रया ॥ २५ ॥ तच्चैतन्यं तु युञ्जीत तन्नामानं नमान्तकम् । विद्यादेहं निरूप्यास्य कास्यहृन्नाभिगुह्यकाः ॥ २६ ॥ अतीताद्याः कलाः पश्चाद् विद्यातत्त्वं च विन्यसेत् । शक्तिं शिवं च विन्यस्य चैतन्यस्थितये ततः ॥ २७ ॥ मूलेनाज्यं शतं हुत्वा निवृत्त्यादिकलाः क्रमात् । बहौ नियोज्य सम्पूज्य शिव द्यावाहनादिकम् ॥ २८ ॥ ताडनं चैव विश्लेषं चैतन्याकर्षणादिकम् । जन्माधिकारभोगान्तां स्नातशुद्धिं च निष्कृतिम् ॥ २९ ॥ तिरोधानं पाशभेदं मर्दनं वर्तुलीकृतिम् । देहं कारणपादान ( ? ) मधिकारार्पण तथा ॥ ३० ॥ चैतन्यस्य शिवे योगं कृत्वा कर्म समाप्य तु । चितौ याम्यशिरस्कं तमारोप्याच्छाद्य चेन्धनैः ॥ ३१ ॥ सपत्नीकस्य तत्पत्नीमियं नारीति शाययेत् । द्वारेषु म प्रक्षिप्य मैनमग्न्यादिमन्त्रतः ॥ ३२ ॥ सन्दीपयेत् तु संसृष्टिकुण्डस्थेनैव वह्निना । ज्वलत्यमौ शिरस्यस्य पूर्ण चानेन पातयेत् ॥ ३३ ॥ त्वमग्ने दक्षिणकलः कालेनैवोपपातिताम् । गृहाण मन्त्रसम्पूतां शाव्यामेनां महाहुतिम् ॥ ३४ ॥ मैनमग्न्यादिना वी (क्ष्य ? )क्षेहतयत्पूर्वकेण च । सूर्ये ते चक्षुरित्याद्याः षडृचः प्रजपेदपि ॥ ३५ ॥ होता य एतस्य पथ आज्यैहुत्वा नवाँहुतीः सुक्स्रुवौ तावोवौ बह निक्षिप्यं कर्करीम् ॥ ३६ ॥
पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२९६
दिखावट