ईशानशिवगुरुदेवपद्धतौ सद्येन चापि वामेन प(र्य?री)युस्तत्सुतादयः । अप नः शोशुचदयात्स्वसिद्धिर्वादयन्तु च || नीयमानं पुनस्त्वायुर्विश्वाद्यादवलोक्य तु । गच्छेयुर्वाहकाः सौम्यास्तांन् निवार्य पुनर्नयेत् ॥ ११ ॥ शुद्धायामवनौ शार्वी शिबिकामवतार्य तु । चितां याम्योत्तरायामां खात्वा वस्ववटं भुवि ॥ १२ ॥ द्विचतुष्करंविस्तारिदी(क्षांघ) दक्षिणतः प्लवाम् । उदंचिताया वेदाश्रं कुण्डं कृत्वैकमेखलम् ॥ १३ ॥ तन्मृदॊ तस्य वायव्ये वेदाश्रं स्थण्डिलं तु तत् । हस्तमात्रं षडंशोच्चं सुलिप्तं तत्रयं भवेत् ॥ १४ ॥ तत्सुतो वाथ शिष्यो वा स्नात: संस्कैर(णे?णो) चितम् । प्रादक्षिण्यं ततो गत्वा सचिवे स्थण्डिलस्य तु ॥ १५ ॥ उदङ्मुखस्तूपविश्य संहारन्यस्तविग्रहः । सकलीकृत्य चात्मानं सा(ध?द)यित्वास्त्रवर्धनी ॥ १६ ॥ तत्तोयैः प्रोक्ष्य तत्सर्वं चितेरैशे तु मण्डले । अस्त्रं पाशुपतं तत्र वर्धन्यां विकिरोपरि ॥ १७ ॥ कृत्वाभिकृतिकोष्ठानि चितायां पञ्चकोष्ठकैः । पृथ्व्यादीनां तु तन्मध्ये पार्थिवे पञ्चकोष्ठके ॥ १८ ॥ ब्रह्माणं पूजयेत् पश्चादप्तेजोनि(खिला?लखा)नि तु । पृथक् कोष्ठ चतुष्केषु मरुद्रक्षोभिशूलिनाम् ॥ १९ ॥ चिष्बाद्यांश्चतुरश्चेष्ट्वा स्वाशाष्ठेषु लोकपान् । तदस्त्राणि चतुर्दिक्षु व्युत्क्रमेणाभिपूज्य तु ॥ २० ॥ स्थाण्डले तु विलोमेन धर्मवामादिका यजेत् । तस्मिस्तु सतिलं भस्म विकर्यि शिवमयेत् ॥ २१ ॥ कुण्डे तदमौ सशिवे हुत्वा पूर्णी जुहोति च काष्ठकीलानधोवक्रान् रक्तसूत्रनिवेष्टितान् ॥ २२ ॥ अप्रदक्षिणमस्त्रेण वह्निकोणादिषु न्यसेत् । एघोभिर्गर्तमापूर्य कुशपुष्पतिलाक्षतैः ॥ २३ ॥ 3. 'न्त', २. 'ता', ३. 'स्त' ख. पायें.
पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/२९५
दिखावट