पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ रुद्रं दक्षिणतो भेर्या वामतस्तु जनार्दनम् । मध्ये ब्रह्माणमाराध्य कोणदण्डे गुहं यजेत् ॥ ४८ ॥ तदग्रे स्थण्डिले पद्मं विलिख्य शुभकर्णिकम् | तत्र शूलं प्रतिष्ठाप्य यथावदभिपूजयेत् ।। ४९ ।। ततस्त्रियम्बकाद्येन मन्त्रेण प्रथमं गुरुः । कोणेन ताडयेद् भेरीमिदंविष्ण्वादिना ततः ॥ ५० ॥ तृतीयं ब्रह्मजज्ञानमन्त्रेणैव तु ताडयेत् । वाद्यकारं ततः स्रातं शुक्लवस्त्राद्यलङ्कृतम् ॥ ५१ ॥ आहूय वादयेत् तेन त्रिमार्गपरिवर्तनात् । ततोऽन्नलिङ्गमुत्थाप्य शङ्खभेर्यादिनिःस्वनैः ॥ ५२ ॥ गीतनृत्तरवैश्चैववैवच्छत्रचामरमङ्गलैः । ग्रामप्रदक्षिणं कुर्वन् ब्रह्मेन्द्रादीन् दिगीश्वरान् || ५३ ॥ दिक्षु सन्धिषु संपूज्य मन्त्रैः श्लोकैर्निजैः स्तवैः | आवाय चा +भिष्टूय शुद्धान्नेन बलिं क्षिपेत् ॥ ५४ || भो भो ब्रह्मंस्त्वयेत्याद्यैः शिवाज्ञां श्रावयेदपि । ततो देवालयं गत्वा ध्वजस्य पुरतः स्थितः ॥ ५५ ॥ रुद्रादित्यान् वसून् सोममश्विनौ च मरुद्गणान् । पितॄनृषींश्च गन्धर्वयक्षविद्याधरासुरान् ॥ ५६ ॥ नागकिन्नररक्षांसि पिशाचान, भूतनायकान् । अब्धीनप्सरसः सिद्धान् नदी: शैलान् वनस्पतीन् ॥ ५७ ॥ आवायोत्सवसेवार्थं स्वैः स्वैस्तारादिनामभिः । आगच्छन्त्विति च ब्रूयाच्छिवाजां श्रावयेच तान् ॥ ५८ ॥ भो भो रुद्रगणाः स्वैः स्वैः परिवर्हेगणैः सह । सेव्योऽयमुत्सवः शंम्भोः सुसन्तुष्टैः शिवोज्ञया || ५९ ॥ इत्यादिभिस्तु देवादीञ्च्छ्रावयेत् स्वस्वनामभिः । रात्रौ बलिं च विकिरेच्छङ्क भेर्यादिनिस्वनैः ॥ १० ॥