उत्तरार्धे अष्टचत्वारिंशः पटलः । व्यासाष्टमांशाधायामवृद्ध्या तु द्विगुणान्तकम् । सप्तषैवासनं हस्तिभूतसिंहवृषाङ्घ्रिकम् ॥ ९१ ।। सूर्याङ्गुलैः स्यात् पादोच्चं देवविप्रनृपोचितम् । सोयराब्जकपोतं तदालिङ्गान्तरिकादिमिः ॥ १२ ॥ उपपीठोचितर्युक्तं सिंहपादैर्विचित्रितम् । तस्योपरिष्ठात् पश्चार्धे हेमरत्नैर्विचित्रितम् ॥ ९३ ॥ नक्रतोरणसंयुक्तं कुर्यात् कल्पकपांदपम् । सिंहासनं स्याद् देवानां राज्ञां चेष्वशतुङ्गपात् ॥ ९४ ॥ पूजापीठ तु देवानामाद्यं षण्मात्रविस्तृतम् । माधिकारः] लिविवृष्यातः करान्ताद् दशधा ततम् ॥ ९५ ॥ चतुरश्रं तु वृत्तं वाप्यायताश्रं तु युक्तितः । त्रिपन्च षड्वस्वंशैर्वा पीठपादोन्नतिर्भवेत् ॥ ९६ ॥ कहप्रत्यूहचित्राढ्यं गृहार्चादौ विधीयते । यत् पीठं पिण्डिकाकारं हेमरूप्यादिनिर्मितम् ॥ ९७ ॥ दारवं वा गृहार्चादौ भद्रपीठं तु तत् स्मृतम् । तदेव नालसंयुक्तं पीठं स्यात् स्वपनोचितम् ॥ ९८ ॥ तदेव मध्यगर्ताढ्यं प्रतिष्ठादौ तु योजयेत् । किष्कु: पादोनमर्धे वा व्यासः कूर्मासनस्य तु ॥ ९९ ॥ शरवेदामिमात्रोच्चं क्रमाच्छ्रेष्ठादिकं स्मृतम् । स्वव्यासाद् रसनन्दनमात्रोना तूतमादिका ॥ १०० ॥ नालदण्डायतिव्यासषडंशार्दू दण्डविस्तृतिः । + + + + + + + + + + तच क्रमात् कृशम् ॥ १०१ ॥ वृत एव हि दण्डः स्यादघश्चामध्यनिर्गतः । तत्राम्बुजादिचिह्नं स्यादग्रं तु समखण्डितम् ॥ १०२ ॥ वृतं वा चतुरश्रं वा शस्तं कूर्मासनं तु तत् । स्वो वेदकभागेन घनं स्यात् फलकासनम् || १०३ ॥ कम्पपङ्कज + ++++++++++1 इत्थं स्वरसभागेन प्रविष्ठाधोऽस्य भित्तिका ॥ १०४ ॥
पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१६०
दिखावट