ईशानशिवगुरुपद्धतौ ते चापि सुहढा : कार्याः स्तम्भलक्षणसंयुताः । स्तम्भोचरामभागैकभागाद् भित्युन्नतिर्भवेत् ॥ ७७ ईषादिहस्तदण्डान्तकम्पपद्मायलङ्कृता । मूतव्यालगजायैश्च नाटकैश्च विभूषयेत् ॥ ७८ ॥ सर्वत्र कीलैः सुदृढैस्ताम्रायःपट्टवन्धनैः । सुदृढं युक्तितः कृत्वा स्तम्भानामुपरि क्रमात् ॥ ७९ ॥ पोतिकोत्तरसंयुक्तं कपोताद्यैरलङ्कृतम् । प्रासादमण्डेपाकारं रम्यं सशिखरं भवेत् || ८० ॥ एवमेव रथं कुर्याद्रजाख्यं शिखरं विना । साङ्घामिको द्विचक्रः स्याच्छिखरस्तम्भवर्जितः ॥ ८१ ॥ वितस्तिभित्तिसंयुक्तः सेषादण्ड: सकूबरः । शकटोऽपि द्विचक्रः स्याद् भित्तिस्तम्भादिवर्जितः ॥ ८२ ॥ पर्यस्य तु विस्तारो दैर्ध्य च शिविकासमम् | इषिका: स्युस्तदाकाराः कम्पपद्माद्यलकृताः ॥ ८३ ॥ अष्टादशाङ्गुलोत्सेधाः पादाः श्रेष्ठाः सहेषया । त्रिपञ्चकाङ्गुला मध्याः कनिष्ठा द्वादशाकुलाः ॥ ८४ ॥ स्वोच्चामद (?) तीष्वंशाच्छ्रेष्ठाद्या पादविस्तृतिः | पादा व्यालहरिप्रख्याः श्रेष्ठा मध्यास्त्वथाधमाः ॥ ८५ ॥ ऋजवः केवला: पादा एकद्रव्याः समाः शुभाः । इषिकाच मिथस्तुल्या: शुभा दार्वादिनिर्मिताः ॥ ८६ ॥ हैमा दान्ता दारवाश्च पादेषास्तूत्तमादिकाः । क्षौम कार्पासपट्टाभ्यां प्रस्तरौं श्रेष्ठमध्यमौ ॥ ८७ ॥ अधमः फलकाभिः स्यात् स चेषादारुभिः स्मृतः । सिंहव्यालाङ्घ्रिपर्यङ्कौ विप्रक्षत्रिययोः स्मृतौ ॥ ८८ ॥ अन्येषामृजुपादाः स्युः सर्वेषामजवोऽथवा । नवसप्तेषूरैस्तु क्रमाद् विंशतिमात्रकैः ॥ ८९ ॥ श्रेष्ठायमासनं व्यासतुल्योचं चतुरश्रकम् । वर्या
पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (चतुर्थः भागः).djvu/१५९
दिखावट