पृष्ठम्:आर्षेयब्राह्मणम्.djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमः अध्यायः (१) ९

एव अग्नेरजायतेत्युपक्रम्य ऐतरेयके भूरित्येव ऋग्वेदादजायत भुव इति यजुर्वेदात् स्वरिति सामवेदाद् (ऐ. ब्रा. ५.३२.) इति प्रतिपादितम् । अस्मद्राह्मणमपि (°णेऽपि?) ॥ १२ ॥ अथ सर्वसाधारणस्य हिंकारस्य ऋषिसंबन्धमाह -

वासिष्ठो हिंकारः प्राजापत्यो गवां वा ॥ १३ ॥

वासिष्टो वसिष्ठेन दृष्टः । प्राजापत्यः प्रजापतिना दृष्टः । गोशरीराभिमानिनो देवा गावः, तेषां वा संबन्धी हिंकारः ।। १३ ॥ अथ तत्सवितुर्वरेण्यमित्यस्यां गीयमानस्यार्षेयं नाम दर्शयति -

गायत्रं पौष्कलमाग्नेयम् ॥ १४ ॥

गायत्र्यामुत्पन्नत्वादस्य गायत्रमिति संज्ञा । पौष्कलं, पुष्कलो नाम ऋषिः तेन दृष्टम् । तथा आग्नेयम् अग्निसंबन्धि । एवमेतन्नाम । तत्सवितुर्वरेण्यम् (सा. १४६२.) इति साम्न इत्यर्थः ॥ १४ ॥

अनिरुक्तं गेयम् ( तां.ब्रा.६.१.८) इति श्रुत्या तस्य गायत्रस्य सर्वत्रानिरुक्तगानं प्राप्तम् । विषयविशेषे तद्बाधितुमाह -

प्रथमायां वा यथादिष्टं गेयम् । प्रथमस्वरैर्वा चतुरक्षरवृडान्तैः ॥ १५ ॥

यथादिष्टं यथा आदिश्यतेऽधीयतेऽध्ययनसमये तथैव प्रथमायां गेयम् ॥ १५ ॥

अथास्य साम्नः प्रस्तावस्य परिमाणमाह -

आद्यपात् प्रस्ताव ओंकारान्तः ॥ १६ ॥