पृष्ठम्:आर्षेयब्राह्मणम्.djvu/८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८ आर्षेयब्राह्मणम्

ओमित्येतत् ब्रह्मण एव तत्साम । अथवा ब्रह्मवाचः ब्रह्मैव वाक् तस्य शब्दब्रह्मणः संबन्धि । एवं बहूनामृषीणां संबन्धप्रतिपादनादेषामन्यतमस्य नाम्नाङ्कितमेतत् प्रणवाख्यं सामेत्यर्थः ॥ ११ ॥

एवं व्याहृतिसाम्नामाषे॔यं [नाम] दर्शयति -

सत्यसाम स्वर्गस्य वा लोकस्य द्वारविवरणं देवानां वौकस्त्रयस्य वा वेदस्याप्यायनमयातयामाक्षरस्थं साम ॥ १२॥

यदेतत् व्याहृतिषु गीयमानं साम तत् सत्यसाम । सत्यभूतस्य प्रजापतेरभिधायकत्वात् सत्यसामेत्याचक्षते । यद्वा स्वज्‍ययाे॔तिरिति स्वःशब्दस्य दर्शनात् स्वर्गस्य वा लोकस्य द्वारविवरणम् । द्वारं वित्रियते उद्घाट्यतेऽनेनेति व्युत्पत्तिः । यद्वा व्याहृतित्रयस्य त्रयीसारत्वात् सकलवेदप्रतिपाद्यानां देवानामोकः स्थानम् । तेषां सर्वेषामोकः [इत्यर्थः] । स्थानवाचकत्वेनावाप्यस्याधिगमात् स्थानत्वोपचारः । यद्वास्य भूरादिलोकत्रयवाचकत्वात् तद्वा स्थानम् । अथवा त्रयस्य त्रिविधस्य अग्निवाय्वादित्यात्मकस्य वेदस्याप्यायनं प्रवचनं तच्च व्याहृतिसामायातयामाक्षरस्थम् । अगतसारेषु अक्षरेषु स्थितम् । ऋग्वेद