पृष्ठम्:आर्षेयब्राह्मणम्.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमः खण्डः


श्यावाश्वं च तारणं वा ॥२.१०.१॥

तरणिं वो जनानाम् (सा. २०४) इत्यत्रैक साम । तरणिवाः (५.१०.२०१.१) इति मन्द्रादिकं श्यावाश्वम् । अथवा तारणं ॥१॥

वैरूपं च ॥२.१०.२॥

असृग्रमिन्द्र ते गिरः (सा. २०५) इत्यत्रैक साम । असृग्रमा- इन्द्रान्तेगिराः (५.१०. २०५. १) इति मन्द्रमन्द्रादिकं वैरूपम् ॥ २ ॥

सौमित्रं च कौत्सं वा ॥ २.१०.३ ॥

सुनीथो घा स मर्त्यः (सा. २०६) इत्यत्रैक साम । सुनीथो- घासमर्तियाः (ग्राम. ५.१०.२०६.१) इति चतुर्थमन्द्रादिकं सौमित्रं सुमित्रेण ऋषिणा दृष्टम् । अथवा कौत्सं वा । कुत्सऋषिणा दृष्टं वा ।। ३ ।।

तौभं च ॥ २.१०.४ ॥

यद्वीडाविन्द्र यत्स्थिरे (सा. २०७) इत्यत्रैक साम। औहोवा- औहोवा । ओया। यद्वीडावीन्द्रायत्स्थिराइ (ग्राम. ५. १०. २०७.१) इति द्वितीयतृतीयादिक तौभम् ।। ४ ।।

श्रौतं च ॥ २.१०.५॥

श्रुतं वो वृत्रहन्तमम् (सा. २०८) इत्यत्रैक साम । श्रुताम् (ग्राम, ५. १०. २०८. १) इति मन्द्रचतुर्थादिकं श्रीनं श्रुतशब्दोपेतं